अ॒भिप्र॑वन्त॒ सम॑नेव॒ योषाः॑ कल्या॒ण्यः᳕ स्मय॑मानासोऽअ॒ग्निम्। घृ॒तस्य॒ धाराः॑ स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥९६ ॥
अ॒भि। प्र॒व॒न्त॒। सम॑ने॒वेति॒ सम॑नाऽइव। योषाः॑। क॒ल्या॒ण्यः᳕। स्मय॑मानासः। अ॒ग्निम्। घृ॒तस्य॑। धाराः॑। स॒मिध॒ इति॑ स॒म्ऽइधः॑। न॒स॒न्त॒। ताः। जु॒षा॒णः। ह॒र्यति॒। जा॒तवे॑दाः ॥९६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तदेवाह ॥
(अभि) (प्रवन्त) गच्छन्ति। लङ्यडभावः। (समनेव) समानं मनो यासां ता इव। सुपां सुलुग्० [अष्टा०७.१.३९] इति विभक्तेर्डादेशः (योषाः) स्त्रियः (कल्याण्यः) कल्याणाचरणशीलाः (स्मयमानासः) किञ्चिद्धासेन प्रसन्नताकारिण्यः (अग्निम्) तेजस्विनं विद्वांसम् (घृतस्य) शुद्धस्य ज्ञानस्य (धाराः) वाचः (समिधः) शब्दार्थसबन्धैः सम्यग् दीपिताः (नसन्त) प्राप्नुवन्ति। नसत इति गतिकर्मा ॥ (निघं०२.१४) (ताः) (जुषाणः) सेवमानः (हर्यति) कामयते। हर्यतीति कान्तिकर्मा ॥ (निघं०२.६) (जातवेदाः) जातं वेदो विज्ञानं यस्य सः ॥९६ ॥