च॒त्वारि॒ शृङ्गा॒ त्रयो॑ऽअस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सोऽअस्य। त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ २ऽआवि॑वेश ॥९१ ॥
च॒त्वारि॑। शृङ्गा॑। त्रयः॑। अस्य॑। पादाः॑। द्वेऽइति॒ द्वे। शी॒र्षेऽइति॑ शी॒र्षे। स॒प्त। हस्ता॑सः। अ॒स्य॒। त्रिधा॑। ब॒द्धः। वृ॒ष॒भः। रो॒र॒वी॒ति॒। म॒हः। दे॒वः। मर्त्या॑न्। आ। वि॒वे॒श॒ ॥९१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब यज्ञ के गुणों वा शब्दशास्त्र के गुणों को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ यज्ञादिगुणानाह ॥
(चत्वारि) (शृङ्गा) शृङ्गाणीव चत्वारो वेदा नामाख्यातोपसर्गनिपाता वा (त्रयः) प्रातर्मध्यसायं सवनानि, भूतभविष्यद्वर्त्तमानाः काला वा (अस्य) यज्ञस्य शब्दस्य वा (पादाः) अधिगमसाधनानि (द्वे) (शीर्षे) शिरसी प्रायणीयोदयनीये, नित्यः कार्यश्च शब्दात्मानौ वा (सप्त) एतत्संख्याकानि गायत्र्यादीनि छन्दांसि, विभक्तयो वा (हस्तासः) हस्तेन्द्रियमिव (अस्य) (त्रिधा) त्रिभिः प्रकारैर्मन्त्रब्राह्मणकल्पैः, उरसि कण्ठे शिरसि वा (बद्धः) (वृषभः) सुखानामभिवर्षकः (रोरवीति) ऋग्वेदादिना सवनक्रमेण वा शब्दायते (महः) महान् (देवः) संगमनीयः प्रकाशको वा (मर्त्यान्) मनुष्यान् (आ, विवेश) आविशति। अत्राहुर्नैरुक्ताः—चत्वारि शृङ्गेति वेदा वा एत उक्तास्त्रयोऽस्य पादा इति सवनानि त्रीणि, द्वे शीर्षे प्रायणीयोदयनीये, सप्त हस्तासः सप्त छन्दांसि, त्रिधा बद्धस्त्रेधा बद्धो मन्त्रब्राह्मणकल्पैर्वृषभो रोरवीति। रोरवणमस्य सवनक्रमेण ऋग्भियजुर्भिः सामभिर्यदेनमृग्भिः शंसन्ति यजुर्भिर्यजन्ति सामभिः स्तुवन्ति। महो देव इत्येष हि महान् देवो यद्यज्ञो मर्त्याँ आ विवेशेत्येष हि मनुष्यानाविशति यजनाय ॥ (निरु०१३.७) पक्षान्तरं पतञ्जलिमुनिरेवमाह—चत्वारि शृङ्गाणि। चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च ॥ त्रयो अस्य पादाः। त्रयः काला भूतभविष्यद्वर्त्तमानाः ॥ द्वे शीर्षे। द्वौ शब्दात्मानौ नित्यः कार्यश्च ॥ सप्तहस्तासो अस्य। सप्त विभक्तयः ॥ त्रिधा बद्धः। त्रिषु स्थानेषु बद्ध उरसि कण्टे शिरसीति ॥ वृषभो वर्षणात् ॥ रोरवीति शब्दं करोति ॥ कुत एतत्? रौतिः शब्दकर्मा महो देवो मर्त्याँ आविवेशेति। महान् देवः शब्दो मर्त्या मरणधर्माणो मनुष्यास्तानाविवेश ॥ (महा०भा०अ०१. पा०१. आ०१) ॥९१ ॥