स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒२ऽउदा॑र॒दुपा॒शुना॒ सम॑मृत॒त्वमा॑नट्। घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ ॥८९ ॥
स॒मु॒द्रात्। ऊ॒र्मिः। मधु॑मा॒निति॒ मधु॑ऽमान्। उत्। आ॒र॒त्। उप॑। अ॒ꣳशुना॑। सम्। अ॒मृ॒त॒त्वमित्य॑मृत॒त्वम्। आ॒न॒ट्। घृ॒तस्य॑ नाम॑। गुह्य॑म्। यत्। अस्ति॑। जि॒ह्वा। दे॒वाना॑म्। अ॒मृत॑स्य। नाभिः॑ ॥८९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्यों को कैसे वर्त्ताव रखना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः कथं वर्तितव्यमित्याह ॥
(समुद्रात्) अन्तरिक्षात् (ऊर्मिः) तरङ्गः (मधुमान्) मधुरगुणयुक्तः (उत्) (आरत्) उदूर्ध्वं प्राप्नोति (उप) (अंशुना) किरणसमूहेन (सम्) (अमृतत्वम्) अमृतस्य भावम् (आनट्) समन्ताद् व्याप्नोति (घृतस्य) जलस्य (नाम) संज्ञा (गुह्यम्) रहस्यम् (यत्) (अस्ति) (जिह्वा) वाणी (देवानाम्) विदुषाम् (अमृतस्य) मोक्षस्य (नाभिः) स्तम्भनं स्थिरीकरणं प्रबन्धनम् ॥८९ ॥