घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑। अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥८८ ॥
घृ॒तम्। मि॒मि॒क्षे॒। घृ॒तम्। अ॒स्य॒। योनिः॑। घृ॒ते। श्रि॒तः। घृ॒तम्। ऊँ॒ऽइत्यूँ॑। अ॒स्य॒ धाम॑। अ॒नु॒ष्व॒धम्। अ॒नु॒स्व॒धमित्य॑नुऽस्व॒धम्। आ। व॒ह॒। मा॒दय॑स्व॒। स्वाहा॑कृत॒मिति॒ स्वाहा॑ऽकृतम्। वृ॒ष॒भ॒। व॒क्षि॒। ह॒व्यम् ॥८८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्यों को अग्नि कहाँ-कहाँ खोजना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैरग्निः क्व क्वान्वेषणीय इत्याह ॥
(घृतम्) उदकम् (मिमिक्षे) सिञ्चितुमिच्छ (घृतम्) जलम् (अस्य) (योनिः) गृहम् (घृते) (श्रितः) (घृतम्) उदकम् (उ) वितर्के (अस्य) पावकस्य (धाम) अधिकरणम् (अनुष्वधम्) स्वधान्नस्यानुकूलम् (आ) (वह) प्रापय (मादयस्व) हर्षयस्व (स्वाहाकृतम्) वेदवाणीनिष्पादितम् (वृषभ) यो वर्षति तत्सम्बुद्धौ (वक्षि) कामयसे प्राप्नोषि वा (हव्यम्) होतुमादातुमर्हम् ॥८८ ॥