चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वाऽइ॒हागम॑न् वी॒तिहो॑त्राऽऋता॒वृधः॑। पत्ये॒ विश्व॑स्य॒ भूम॑नो जु॒होमि॑ वि॒श्वक॑र्मणे वि॒श्वाहादा॑भ्यꣳ ह॒विः ॥७८ ॥
चित्ति॑म्। जु॒हो॒मि॒। मन॑सा। घृ॒तेन॑। यथा॑। दे॒वाः। इ॒ह। आ॒गम॒न्नित्या॒गम॑न्। वी॒तिहो॑त्रा॒ इति॑ वी॒तिऽहो॑त्रा। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। पत्ये॑। विश्व॑स्य। भूम॑नः। जु॒होमि॑। वि॒श्वक॑र्मण॒ इति॑ वि॒श्वऽक॑र्मणे। वि॒श्वाहा॑। अदा॑भ्यम्। ह॒विः ॥७८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(चित्तिम्) चिन्वन्ति यया ताम् (जुहोमि) गृह्णामि (मनसा) विज्ञानेन (घृतेन) आज्येन (यथा) (देवाः) कामयमाना विद्वांसः (इह) (आगमन्) आगच्छन्ति (वीतिहोत्राः) वीतिः सर्वतः प्रकाशितो होत्रा यज्ञो येषां ते (ऋतावृधः) ये ऋतेन सत्येन वर्धन्ते। अत्र अन्येषामपि० [अष्टा०६.३.१३७] इति पूर्वपदस्य दीर्घः। (पत्ये) पालकाय (विश्वस्य) समग्रस्य जगतः (भूमनः) बहुरूपस्य (जुहोमि) ददामि (विश्वकर्मणे) विश्वं कर्म क्रियमाणं कृतं येन तस्मै (विश्वाहा) सर्वाणि दिनानि (अदाभ्यम्) अहिंसनीयम् (हविः) होतव्यं शुद्धं सुखकरं द्रव्यम् ॥७८ ॥