आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम्। सं॒क्रन्द॑नोऽनिमि॒षऽए॑कवी॒रः श॒तꣳ सेना॑ऽअजयत् सा॒कमिन्द्रः॑ ॥३३ ॥
आ॒शुः। शिशा॑नः। वृ॒ष॒भः। न। भी॒मः। घ॒ना॒घ॒नः। क्षोभ॑णः। च॒र्ष॒णी॒नाम्। सं॒क्रन्द॑न॒ इति॑ स॒म्ऽक्रन्द॑नः। अ॒नि॒मि॒ष इत्य॑निऽमिषः। ए॒क॒वी॒र इत्ये॑कऽवी॒रः। श॒तम्। सेनाः॑। अ॒ज॒य॒त्। सा॒कम्। इन्द्रः॑ ॥३३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब सेनापति के कृत्य का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सेनापतिकृत्यमुपदिश्यते ॥
(आशुः) शीघ्रकारी (शिशानः) तनूकर्त्ता (वृषभः) बलीवर्दः (न) इव (भीमः) भयंकरः (घनाघनः) अतिशयेन शत्रून् घातुकः। हन्तेर्घत्वं चेति वार्त्तिकेनाचि प्रत्यये घत्वमभ्यासस्यागागमश्च (क्षोभणः) क्षोभकर्त्ता संचालयिता (चर्षणीनाम्) मनुष्याणां तत्सम्बन्धिसेनानां वा। चर्षणय इति मनुष्यनामसु पठितम् ॥ (निघं०२.३) (संक्रन्दनः) सम्यक् शत्रूणां रोदयिता (अनिमिषः) अहर्निशं प्रयतमानः (एकवीरः) एकश्चासौ वीरश्च (शतम्) असंख्याः (सेनाः) सिन्वन्ति बध्नन्ति शत्रून् याभिस्ताः (अजयत्) जयति (साकम्) सार्द्धम् (इन्द्रः) शत्रूणां विदारयिता सेनेशः ॥३३ ॥