न तं वि॑दाथ॒ यऽइ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव। नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ऽउक्थ॒शास॑श्चरन्ति ॥३१ ॥
न। तम्। वि॒दा॒थ॒। यः। इ॒मा। ज॒जान॑। अ॒न्यत्। यु॒ष्माक॑म्। अन्तर॑म्। ब॒भू॒व॒। नी॒हा॒रेण॑। प्रावृ॑ताः। जल्प्या॑। च॒। अ॒सु॒तृप॒ इत्य॑सु॒ऽतृपः॑। उ॒क्थ॒शासः॑। उ॒क्थ॒शस॒ इत्यु॑क्थ॒ऽशसः॑। च॒र॒न्ति॒ ॥३१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(न) निषेधे (तम्) परमात्मानम् (विदाथ) जानीथ। लेट्प्रयोगः (यः) (इमा) इमानि भूतानि (जजान) जनयति (अन्यत्) कार्यकारणजीवेभ्यो भिन्नं ब्रह्म (युष्माकम्) अधार्मिकाणामविदुषाम् (अन्तरम्) मध्ये स्थितमपि दूरस्थमिव (बभूव) भवति (नीहारेण) धूमाकारेण कुहकेनेवाज्ञानेन (प्रावृताः) प्रकृष्टतयाऽऽवृता आच्छन्नाः सन्तः (जल्प्या) जल्पेषु सत्यासत्यवादानुवादेषु भवाः। अत्र सुपां सुलुग्० [अष्टा०७.१.३९] इति विभक्तेराकारादेशः (च) (असुतृपः) येऽसुषु प्राणेषु तृप्यन्ति ते (उक्थशासः) ये योगाभ्यासं विहाय उक्थानि वचनानि शंसन्ति तेऽर्थात् शब्दार्थयोः खण्डने रताः (चरन्ति) व्यवहरन्ति ॥३१ ॥