नृ॒षदे॒ वेड॑प्सु॒षदे॒ वेड् ब॑र्हि॒षदे॒ वेड् व॑न॒सदे॒ वेट् स्व॒र्विदे॒ वेट् ॥१२ ॥
नृ॒षदे॑। नृ॒सद॒ इति॑ नृ॒ऽसदे॑। वेट्। अ॒प्सु॒षदे॑। अ॒प्सु॒सद॒ इत्य॑प्सु॒ऽसदे॑। वेट्। ब॒र्हि॒षदे॑। ब॒र्हि॒सद इति॑ बर्हि॒ऽसदे॑। वेट्। व॒न॒सद॒ इति॑ वन॒ऽसदे॑। वेट्। स्व॒र्विद॒ इति॑ स्वः॒ऽविदे॑। वेट् ॥१२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तदेवाह ॥
(नृषदे) यो नायकेषु सीदति तस्मै (वेट्) यो न्यायासने विशति सः। अत्र विशधातोः अन्येभ्योऽपि दृश्यन्ते [अष्टा०३.२.७५] इति विच् प्रत्ययः (अप्सुषदे) यो जलेषु नौकादिषु सीदति तस्मै (वेट्) (बर्हिषदे) यः प्रजाया वर्धके व्यवहारे तिष्ठति तस्मै (वेट्) अधिष्ठाता (वनसदे) यो वनेषु सीदति तस्मै (वेट्) (स्वर्विदे) यः सुखं वेत्ति तस्मै (वेट्) ॥१२ ॥