द्रापे॒ऽअन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित। आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ् मो च॑ नः॒ किं च॒नाम॑मत् ॥४७ ॥
द्रापे॑। अन्ध॑सः। प॒ते॒। दरि॑द्र। नील॑लोहि॒तेति॒ नील॑ऽलोहित। आ॒साम्। प्र॒जाना॒मिति॑ प्र॒ऽजाना॑म्। ए॒षाम्। प॒शू॒नाम्। मा। भेः॒। मा। रो॒क्। मोऽइति॒ मो। च॒। नः॒। किम्। च॒न। आ॒म॒म॒त् ॥४७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(द्रापे) यो द्रः कुत्साया गतेः पाति रक्षति तत्संबुद्धौ (अन्धसः) अन्नादेः (पते) स्वामी (दरिद्र) यो दरिद्राति तत्सम्बुद्धौ (नीललोहित) यो नीलान् वर्णान् रोहयति तत्सम्बुद्धौ (आसाम्) प्रत्यक्षाणाम् (प्रजानाम्) मनुष्यादीनाम् (एषाम्) (पशूनाम्) गवादीनाम् (मा) (भेः) मा भयं प्रापयेः (मा) (रोक्) रोगं कुर्याः (मो) (च) (नः) अस्मान् (किम्) (चन) (आममत्) अम रोगे। अमागमो लङि रूपम् ॥४७ ॥