नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ॥३६ ॥
नमः॑। धृ॒ष्णवे॑। च॒। प्र॒मृ॒शायेति॑ प्रऽमृ॒शाय॑। च॒। नमः॑। नि॒ष॒ङ्गिणे॑। च॒। इ॒षु॒धि॒मत॒ इती॑षुधि॒ऽमते॑। च॒। नमः॑। ती॒क्ष्णेष॑व॒ इति॑ ती॒क्ष्णऽइ॑षवे। च॒। आ॒यु॒धिने॑। च॒। नमः॑। स्वा॒यु॒धायेति॑ सुऽआ॒यु॒धाय॑। च॒। सु॒धन्व॑न॒ इति॑ सुऽधन्व॑ने। च॒ ॥३६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(नमः) अन्नादिदानम् (धृष्णवे) यो धृष्णोति दृढो निर्भयो भवति तस्मै (च) (प्रमृशाय) प्रकृष्टविचारशीलाय (च) मृदुस्वभावजनाय (नमः) सत्करणम् (निषङ्गिणे) बहवो निषङ्गाः शस्त्रसमूहा विद्यन्ते यस्य तस्मै (च) (इषुधिमते) प्रशस्तशस्त्रास्त्रकोशाय (च) (नमः) सत्करणम् (तीक्ष्णेषवे) तीक्ष्णास्तीव्रा इषवोऽस्त्रशस्त्राणि यस्य तस्मै (च) (आयुधिने) ये शतघ्न्यादिभिः समन्ताद् युध्यन्ते ते प्रशस्ता विद्यन्ते यस्य तस्मै (च) (नमः) अन्नदानम् (स्वायुधाय) शोभनानि आयुधानि यस्य तस्मै (च) (सुधन्वने) शोभनानि धन्वानि धनूंषि यस्य तस्मै (च) तेषां रक्षकाय ॥३६ ॥