नमो॑ बि॒ल्मिने॑ च॒ कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या᳖य चाहन॒न्या᳖य च ॥३५ ॥
नमः॑। बि॒ल्मिने॑। च॒। क॒व॒चिने॑। च॒। नमः॑। व॒र्मिणे॑। च॒। व॒रू॒थिने॑। च॒। नमः॑। श्रु॒ताय॑। च॒। श्रु॒त॒से॒नायेति॑ श्रुतऽसे॒नाय॑। च॒। नमः॑। दु॒न्दु॒भ्या᳖य। च॒। आ॒ह॒न॒न्या᳖येत्याऽहन॒न्या᳖य। च॒ ॥३५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
योद्धाओं की रक्षा कैसे करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
योद्धॄणां रक्षा कथं कार्येत्याह ॥
(नमः) सत्करणम् (बिल्मिने) प्रशस्तं बिल्मं धारणं वा विद्यते यस्य तस्मै (च) (कवचिने) सम्बद्धं कवचं शरीररक्षासाधनं विद्यते यस्य तस्मै (च) (नमः) अन्नादिदानम् (वर्मिणे) बहूनि वर्माणि शरीररक्षासाधनानि विद्यन्ते यस्य तस्मै (च) (वरूथिने) प्रशस्तानि वरूथानि गृहाणि विद्यन्ते यस्य तस्मै। वरूथमिति गृहनामसु पठितम् ॥ (निघं०३.४) (च) (नमः) सत्करणम् (श्रुताय) यः शुभगुणेषु श्रूयते तस्मै (च) (श्रुतसेनाय) श्रुता प्रख्याता सेना यस्य तस्मै (च) (नमः) सत्करणम् (दुन्दुभ्याय) दुन्दुभिषु वादित्रेषु साधवे (च) (आहनन्याय) वीररसाय वादित्रवादनेषु साधवे (च) ॥३५ ॥