हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तदेवाह ॥
(नमः) (ते) तुभ्यम् (आयुधाय) यः समन्ताद् युध्यते तस्मै। अत्र इगुपधा० [अष्टा०३.१.१३५] इति कः। (अनातताय) अविद्यमान आततो विस्तारो यस्य तस्मै (धृष्णवे) यो धृष्णोति धार्ष्ट्यं प्राप्नोति तस्मै (उभाभ्याम्) (उत) (ते) तुभ्यम् (नमः) (बाहुभ्याम्) बलवीर्य्याभ्याम् (तव) (धन्वने) ॥१४ ॥