इन्द्रं॒ विश्वा॑ऽअवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑। र॒थीत॑मꣳ र॒थीनां॒ वाजा॑ना॒ सत्प॑तिं॒ पति॑म् ॥६१ ॥
इन्द्र॑म्। विश्वाः॑। अ॒वी॒वृ॒ध॒न्। स॒मु॒द्रव्य॑चस॒मितिं॑ समु॒द्रऽव्य॑चसम्। गिरः॑। र॒थीत॑मम्। र॒थित॑म॒मिति॑ र॒थिऽत॑मम्। र॒थीना॑म्। र॒थिना॒मितिं॑ र॒थिऽना॑म्। वाजा॑नाम्। सत्प॑ति॒मिति॒ सत्ऽप॑तिम्। पति॑म् ॥६१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(इन्द्रम्) परमैश्वर्ययुक्तं सभेशम् (विश्वाः) अखिलाः (अवीवृधन्) वर्धयन्तु (समुद्रव्यचसम्) समुद्रस्यान्तरिक्षस्य व्यचो व्याप्तिर्यस्य तम् (गिरः) विद्यासुशिक्षान्विता वाण्यः (रथीतमम्) अतिशयितो रथी। अत्र ईद्रथिनः ॥ (अष्टा०८.२.१७) इति वार्तिकेन ईकारादेशः (रथीनाम्) शूरवीराणां मध्ये अत्र अन्येषामपि० [अ०६.३.१३७] इति दीर्घः (वाजानाम्) विज्ञानवताम् (सत्पतिम्) सतां व्यवहाराणां विदुषां वा पालकम् (पतिम्) स्वामिनम्। [अयं मन्त्रः शत०८.७.३.७ व्याख्यातः] ॥६१ ॥