वांछित मन्त्र चुनें

एव॒श्छन्दो॒ वरि॑व॒श्छन्दः॑ श॒म्भूश्छन्दः॑ परि॒भूश्छन्द॑ऽआ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्दः॒॑ सिन्धु॒श्छन्दः॑ समु॒द्रश्छन्दः॑ सरिरं॒ छन्दः॑ क॒कुप् छन्द॑स्त्रिक॒कुप् छन्दः॑ का॒व्यं छन्दो॑ऽअङ्कु॒पं छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दः॑ प॒दप॑ङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः क्षु॒रश्छन्दो॒ भ्रज॒श्छन्दः॑ ॥४ ॥

मन्त्र उच्चारण
पद पाठ

एवः॑। छन्दः॑। वरि॑वः। छन्दः॑। श॒म्भूरिति॑ श॒म्ऽभूः। छन्दः॑। प॒रि॒भूरिति॑ परि॒ऽभूः। छन्दः॑। आ॒च्छदित्या॒ऽच्छत्। छन्दः॑। मनः॑। छन्दः॑। व्यचः॑। छन्दः॑। सिन्धुः॑। छन्दः॑। स॒मु॒द्रः। छन्दः॑। स॒रि॒रम्। छन्दः॑। क॒कुप्। छन्दः॑। त्रि॒क॒कुबिति॑ त्रिऽक॒कुप्। छन्दः॑। का॒व्यम्। छन्दः॑। अ॒ङकु॒पम्। छन्दः॑। अ॒क्षर॑पङ्क्ति॒रित्य॒क्षर॑ऽपङ्क्तिः। छन्दः॑। प॒दप॑ङ्क्तिरिति॑ प॒दऽप॑ङ्क्तिः। छन्दः॑। वि॒ष्टा॒रप॑ङ्क्तिः। वि॒स्ता॒रप॑ङ्क्ति॒रिति॑ विस्ता॒रऽप॑ङ्क्तिः। छन्दः॑। क्षु॒रः। छन्दः॑। भ्रजः॑। छन्दः॑ ॥४ ॥

यजुर्वेद » अध्याय:15» मन्त्र:4


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

मनुष्यों को चाहिये कि प्रयत्नपूर्वक साधनों से सुख बढ़ावें, यह विषय अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग उत्तम प्रयत्न से (एवः) (छन्दः) आनन्ददायक ज्ञान (वरिवः) सत्यसेवनरूप (छन्दः) सुखदायक (शम्भूः) सुख का अनुभव (छन्दः) आनन्दकारी (परिभूः) सब ओर से पुरुषार्थी (छन्दः) सत्य का प्रकाशक (आच्छत्) दोषों का हटाना (छन्दः) जीवन (मनः) संकल्प-विकल्पात्मक (छन्दः) प्रकाशकारी (व्यचः) शुभ गुणों की व्याप्ति (छन्दः) आनन्दकारक (सिन्धुः) नदी के तुल्य चलना (छन्दः) स्वतन्त्रता (समुद्रः) समुद्र के समान गम्भीरता (छन्दः) प्रयोजनसिद्धिकारी (सरिरम्) जल के तुल्य कोमलता (छन्दः) जल के समान शान्ति (ककुप्) दिशाओं के तुल्य उज्ज्वल कीर्ति (छन्दः) प्रतिष्ठा देनेवाला (त्रिककुप्) अध्यात्मादि तीन सुखों का प्राप्त करनेवाला कर्म (छन्दः) आनन्दकारक (काव्यम्) दीर्घदर्शी कवि लोगों ने बनाया (छन्दः) प्रकाशक, विज्ञानदायक (अङ्कुपम्) टेढ़ी गतिवाला जल (छन्दः) उपकारी (अक्षरपङ्क्तिः) परलोक (छन्दः) आनन्दकारी (पदपङ्क्तिः) यह लोक (छन्दः) सुखसाधक (विष्टारपङ्क्तिः) सब दिशा (छन्दः) सुख का साधक (क्षुरः) छुरा के समान पदार्थों का छेदक सूर्य्य (छन्दः) विज्ञानस्वरूप (भ्रजः) प्रकाशमय (छन्दः) स्वच्छ आनन्दकारी पदार्थ सुख के लिये सिद्ध करो ॥४ ॥
भावार्थभाषाः - जो मनुष्य धर्मयुक्त कर्म में पुरुषार्थ करने से सब के प्रिय होना अच्छा समझते हैं, वे सब सृष्टि के पदार्थों से सुख लेने को समर्थ होते हैं ॥४ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

मनुष्याः प्रयत्नेन साधनैः सुखानि वर्द्धयन्त्वित्याह ॥

अन्वय:

(एवः) ज्ञानम् (छन्दः) आनन्दम् (वरिवः) सत्यसेवनम् (छन्दः) सुखप्रदम् (शम्भूः) सुखं भावुकः (छन्दः) आह्लादकारी व्यवहारः (परिभूः) सर्वतः पुरुषार्थी (छन्दः) सत्यप्रदीपकः (आच्छत्) दोषापवारणम् (छन्दः) ऊर्जनम् (मनः) संकल्पो विकल्पः (छन्दः) प्रकाशकरम् (व्यचः) शुभगुणव्याप्तिः (छन्दः) आनन्दकारि (सिन्धुः) नदीव चलनम् (छन्दः) (समुद्रः) सागर इव गाम्भीर्य्यम् (छन्दः) अर्थकरम् (सरिरम्) जलमिव सरलता कोमलता (छन्दः) जलमिव शान्तिः (ककुप्) दिगिव यशः (छन्दः) प्रतिष्ठाप्रदम् (त्रिककुप्) त्रीणि कानि सुखानि स्कुभ्नाति येन कर्मणा तत्। अत्र छान्दसो वर्णलोप इति सलोपः (छन्दः) आनन्दकरम् (काव्यम्) कविभिर्निर्मितम् (छन्दः) प्रकाशकम् (अङ्कुपम्) अङ्कूनि कुटिलानि गमनानि पाति रक्षति तज्जलम् (छन्दः) तृप्तिकरं कर्म (अक्षरपङ्क्तिः) असौ च लोकः (छन्दः) आनन्दकरः (पदपङ्क्तिः) अयं लोकः (छन्दः) सुखसाधकः (विष्टारपङ्क्तिः) सर्वा दिशः (छन्दः) सुखसाधिकाः (क्षुरः) क्षुर इव छेदक आदित्यः (छन्दः) विज्ञानम् (भ्रजः) दीप्तम्। अत्र वर्णव्यत्ययेन ह्रस्वत्वम् (छन्दः) स्वच्छन्दानन्दकरः ॥४ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं परमप्रयत्नेनैवश्छन्दो वरिवश्छन्दः शम्भूश्छन्दः परिभूश्छन्द आच्छच्छन्दो मनश्छन्दो व्यचश्छन्दः सिन्धुश्छन्दः समुद्रश्छन्दः सरिरं छन्दः ककुप् छन्दस्त्रिककुप्छन्दः काव्यं छन्दोऽङ्कुपं छन्दोऽक्षरपङ्क्तिश्छन्दः पदपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छन्दः क्षुरश्छन्दो भ्रजश्छन्दः सुखाय साध्नुत ॥४ ॥
भावार्थभाषाः - ये मनुष्या धर्म्यकर्मपुरुषार्थानुष्ठानेन प्रिया भवन्ति ते सर्वेभ्यः सृष्टिस्थपदार्थेभ्यः सुखानि संग्रहीतुं शक्नुवन्ति ॥४ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जी माणसे पुरुषार्थाने धर्मयुक्त कर्म करून सर्वांचे आवडते व्हावे, अशी इच्छा बाळगतात ते सृष्टीतील पदार्थांचे सुख घेण्यास समर्थ ठरतात.