विश्व॑स्य दू॒तम॒मृतं॒ विश्व॑स्य दू॒तम॒मृत॑म्। स यो॑जतेऽअरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त् स्वा᳖हुतः ॥३३ ॥
विश्व॑स्य। दू॒तम्। अ॒मृत॑म्। विश्व॑स्य। दू॒तम्। अ॒मृत॑म्। सः। यो॒ज॒ते॒। अ॒रु॒षा। वि॒श्वभो॑ज॒सेति॑ वि॒श्वऽभो॑जसा। सः। दु॒द्र॒व॒त्। स्वा᳖हुत॒ इति॒ सुऽआ॑हुतः ॥३३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः सः कीदृशः स्यादित्याह ॥
(विश्वस्य) समग्रस्य भूगोलसमूहस्य (दूतम्) परितापकं विद्युदाख्यमग्निम् (अमृतम्) कारणरूपेणाविनाशिस्वरूपम् (विश्वस्य) अखिलपदार्थजातस्य (दूतम्) परितापेन दाहकम् (अमृतम्) उदकेऽपि व्यापकं कारणम्। अमृतमित्युदकना० ॥ (निघं०१.१२) (सः) (योजते) युनक्ति। अत्र व्यत्ययेन शप् (अरुषा) रूपवता पदार्थसमूहेन (विश्वभोजसा) विश्वस्य पालकेन (सः) (दुद्रवत्) शरीरादौ द्रवति गच्छति। अत्र वर्तमाने लङ्। माङ्योगमन्तरेणाप्यडभावः (स्वाहुतः) सुष्ठु समन्ताद्धुत आदत्तः सन् ॥३३ ॥