अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं᳖ वि॒शेवि॑शे ॥२६ ॥
अ॒यम्। इ॒ह। प्र॒थ॒मः। धा॒यि॒। धा॒तृभि॒रिति॑ धा॒तृऽभिः॑। होता॑। यजि॑ष्ठः। अ॒ध्व॒रेषु॑। ईड्यः॑। यम्। अप्न॑वानः। भृग॑वः। वि॒रु॒रु॒चुरिति॑ विऽरु॒रु॒चुः। वने॑षु। चि॒त्रम्। वि॒भ्व᳖मिति॑ वि॒ऽभ्व᳖म्। वि॒शेवि॑श॒ इति॑ वि॒शेऽवि॑शे ॥२६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्याह ॥
(अयम्) (इह) (प्रथमः) विस्तीर्णोऽग्निः (धायि) ध्रियते (धातृभिः) धारकैः (होता) आदाता (यजिष्ठः) अतिशयेन यष्टा (अध्वरेषु) अहिंसनीयव्यवहारेषु (ईड्यः) अन्वेषितुं योग्यः (यम्) (अप्नवानः) रूपवन्तः। अप्नमिति रूपना० ॥ (निघं०३.५) अत्र छान्दसो वर्णलोप इति मतोस्तलोपः (भृगवः) परिपक्वविज्ञानाः (विरुरुचुः) विरोचन्ते प्रकाशन्ते (वनेषु) रश्मिषु (चित्रम्) अद्भुतम् (विभ्वम्) व्यापकम् (विशेविशे) प्रजायै प्रजायै ॥२६ ॥