अ॒यं पु॒रो हरि॑केशः॒ सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानीग्राम॒ण्यौ᳖। पु॒ञ्जि॒क॒स्थ॒ला च॑ क्रतुस्थ॒ला चा॑प्स॒रसौ॑ द॒ङ्क्ष्णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑ति॒स्तेभ्यो॒ नमो॑ऽअस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥१५ ॥
अ॒यम्। पु॒रः। हरि॑केश॒ इति॒ हरि॑ऽकेशः। सूर्य॑रश्मि॒रिति॒ सूर्य॑ऽरश्मिः। तस्य॑। र॒थ॒गृ॒त्स इति॑ रथऽगृ॒त्सः। च॒। रथौ॑जा॒ इति॒ रथ॑ऽओजाः। च॒। से॒ना॒नी॒ग्रा॒म॒ण्यौ᳖। से॒ना॒नी॒ग्रा॒म॒न्याविति॑ सेनानीग्राम॒न्यौ᳖। पु॒ञ्जि॒क॒स्थ॒लेति॑ पुञ्जिकऽस्थ॒ला। च॒। क्र॒तु॒स्थ॒लेति॑ क्रतुऽस्थ॒ला। च॒। अ॒प्स॒रसौ॑। द॒ङ्क्ष्णवः॑। प॒शवः॑। हे॒तिः। पौरु॑षेयः। व॒धः। प्रहे॑ति॒रिति॒ प्रऽहे॑तिः। तेभ्यः॑। नमः॑। अ॒स्तु॒। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। मृ॒ड॒य॒न्तु॒। ते। यम्। द्वि॒ष्मः। यः। च॒। नः॒। द्वेष्टि॑। तम्। ए॒षा॒म्। जम्भे॑। द॒ध्मः॒ ॥१५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब किरण आदि के दृष्टान्त से श्रेष्ठ विद्या का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ रश्म्यादिदृष्टान्तेन सद्विद्योपदिश्यते ॥
(अयम्) (पुरः) पूर्वस्मिन् काले वर्त्तमानः (हरिकेशः) हरणशीला हरितवर्णाः केशा इव केशाः प्रकाशा यस्य। अत्र क्लिशेरन् लो लोपश्च ॥ (उणा०५.३३) इत्यन् लकारलोपश्च (सूर्यरश्मिः) सूर्य्यस्य किरणः (तस्य) (रथगृत्सः) रथस्य प्रवेता गृत्सो मेधावीव वर्त्तमानः। (च) (रथौजाः) रथेनौजो बलं यस्य (च) (सेनानीग्रामण्यौ) सेनानीश्च ग्रामणीश्च ताविव (पुञ्जिकस्थला) समूहस्थाना दिक् (च) (क्रतुस्थला) प्रज्ञाकर्मज्ञापनोपदिक् (च) (अप्सरसौ) ये अप्सु प्राणेषु सरन्त्यौ गच्छन्त्यौ ते (दङ्क्ष्णवः) मांसघासादीनां दंशनशीला व्याघ्रादयः। अत्र दंशधातोर्बाहुलकान्नुः सुडागमश्च (पशवः) (हेतिः) वज्र इव घातुकः (पौरुषेयः) पुरुषाणां समूहः (वधः) हन्ति येन (प्रहेतिः) प्रकृष्टो हेतिर्वज्र इव वर्त्तमानः (तेभ्यः) (नमः) वज्रः (अस्तु) (ते) (नः) अस्मान् (अवन्तु) रक्षन्तु (ते) (नः) अस्मान् (मृडयन्तु) आनन्दयन्तु (ते) रक्षका वयम् (यम्) हिंसकम् (द्विष्मः) विरुन्ध्मः (यः) (च) (नः) अस्मान् (द्वेष्टि) विरुणद्धि (तम्) (एषाम्) पशूनाम् (जम्भे) जम्भन्ति गात्राणि विनामयन्ति येन मुखेन तस्मिन् (दध्मः) संस्थापयामः। [अयं मन्त्रः शत०८.६.१.१६ व्याख्यातः] ॥१५ ॥