कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒२ऽ इभे॑न। तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥९ ॥
कृ॒णु॒ष्व। पाजः॑। प्रसि॑ति॒मिति॒ प्रऽसि॑तिम्। न। पृ॒थ्वीम्। या॒हि। राजे॒वेति॒ राजा॑ऽ इव। अम॑वा॒नित्यम॑ऽवान्। इभे॑न। तृ॒ष्वीम्। अनु॑। प्रसि॑ति॒मिति॒ प्रऽसि॑तिम्। द्रू॒णा॒नः। अस्ता॑। अ॒सि॒। विध्य॑। र॒क्षसः॑। तपि॑ष्ठैः ॥९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
राजपुरुषों को शत्रु कैसे बाँधने चाहियें, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
राजपुरुषैः कथं शत्रवो बन्धनीया इत्याह ॥
(कृणुष्व) कुरुष्व (पाजः) बलम्। पातेर्बले जुच् च ॥ (उणा०४.२१०) इत्यसुन् (प्रसितिम्) जालम्। प्रसितिः प्रसयनात् तन्तुर्वा जालं वा ॥ (निरु०६.१२) (न) इव (पृथ्वीम्) भूमिम् (याहि) प्राप्नुहि (राजेव) (अमवान्) बहवः सचिवा विद्यन्ते यस्य तद्वत् (इभेन) हस्तिना (तृष्वीम्) क्षिप्रगतिम्। तृष्विति क्षिप्रनामसु पठितम् ॥ (निघं०२.१५) ततो वोतो गुणवचनात् [अष्टा०४.१.४४] इति ङीष् (अनु) (प्रसितिम्) बन्धनं जालम् (द्रूणानः) हिंसन् (अस्ता) प्रक्षेप्ता (असि) (विध्य) ताडय (रक्षसः) शत्रून् (तपिष्ठैः) अतिशयेन संतापकरैः शस्त्रैः। अयं मन्त्रः निरु०६.१२ व्याख्यातः। [अयं मन्त्रः शत०७.४.१.३३ व्याख्यातः] ॥९ ॥