अ॒यं प॒श्चाद् वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वै॒श्वव्यच॒सं व॒र्षाश्चा॑क्षु॒ष्यो᳕ जग॑ती वा॒र्षी जग॑त्या॒ऽ ऋक्स॑म॒मृक्स॑माच्छु॒क्रः शु॒क्रात् स॑प्तद॒शः स॑प्तद॒शाद् वै॑रू॒पं ज॒मद॑ग्नि॒र्ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्यः॑ ॥५६ ॥
अ॒यम्। प॒श्चात्। वि॒श्वव्य॑चा॒ इति॑ वि॒श्वऽव्य॑चाः। तस्य॑। चक्षुः॑। वै॒श्व॒व्य॒च॒समिति॑ वैश्वऽव्य॒च॒सम्। व॒र्षाः। चा॒क्षु॒ष्यः᳖। जग॑ती। वा॒र्षी। जग॑त्याः। ऋक्स॑म॒मित्यृक्ऽस॑मम्। ऋक्स॑मा॒दित्यृक्ऽस॑मात्। शु॒क्रः। शु॒क्रात्। स॒प्त॒द॒श इति॑ सप्तऽद॒शः। स॒प्त॒द॒शादिति॑ सप्तऽद॒शात्। वै॒रू॒पम्। ज॒मद॑ग्नि॒रिति॑ ज॒मत्ऽअ॑ग्निः। ऋषिः॑। प्र॒जाप॑तिगृहीत॒येति॑ प्र॒जाप॑तिऽगृहीतया। त्वया॑। चक्षुः॑। गृ॒ह्णा॒मि॒। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑ ॥५६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब स्त्री पुरुष आपस में कैसा आचरण करें, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ स्त्रीपुरुषौ मिथः कथमाचरेतामित्याह ॥
(अयम्) आदित्यः (पश्चात्) पश्चिमायां दिशि वर्त्तमानः (विश्वव्यचाः) विश्वं व्यचति प्रकाशेनाभिव्याप्य प्रकटयति सः (तस्य) सूर्यस्य (चक्षुः) नयनम् (वैश्वव्यचसम्) प्रकाशकम् (वर्षाः) यासु मेघा वर्षन्ति ताः (चाक्षुष्यः) चक्षुष इमा दर्शनीयाः (जगती) जगद्गता (वार्षी) वर्षाणां व्याख्यात्री (जगत्याः) (ऋक्समम्) ऋचः सनन्ति संभजन्ति येन तद् ऋक्समम् (ऋक्समात्) (शुक्रः) पराक्रमः (शुक्रात्) वीर्य्यात् (सप्तदशः) सप्तदशानां पूरकः (सप्तदशात्) (वैरूपम्) विविधानि रूपाणि यस्मात् तस्येदम् (जमदग्निः) प्रज्वलिताग्निर्नयनम् (ऋषिः) रूपप्रापकः (प्रजापतिगृहीतया) (त्वया) (चक्षुः) (गृह्णामि) (प्रजाभ्यः) ॥५६ ॥