वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒ना रज॑सः॒ पर॑स्मात्। म॒ही सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हि॑सीः पर॒मे व्यो॑मन् ॥४४ ॥
वरू॑त्रीम्। त्वष्टुः॑। वरु॑णस्य। नाभि॑म्। अवि॑म्। ज॒ज्ञा॒नाम्। रज॑सः। पर॑स्मात्। म॒हीम्। सा॒ह॒स्रीम्। असु॑रस्य। मा॒याम्। अग्ने॑। मा। हि॒ꣳसीः॒। प॒र॒मे। व्यो॑मन्निति॒ विऽओ॑मन् ॥४४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उस विद्वान् को क्या नहीं करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तेन किं न कार्य्यमित्याह ॥
(वरूत्रीम्) वरयित्रीम् (त्वष्टुः) छेदकस्य सूर्य्यस्य (वरुणस्य) जलस्य (नाभिम्) बन्धिकाम् (अविम्) रक्षणादिनिमित्ताम् (जज्ञानाम्) प्रजाताम् (रजसः) लोकात् (परस्मात्) श्रेष्ठात् (महीम्) महतीं भूमिम् (साहस्रीम्) असंख्यातां बहुफलप्रदाम् (असुरस्य) मेघस्य (मायाम्) प्रज्ञापिकां विद्युतम् (अग्ने) विद्वन् (मा) (हिंसीः) हिंस्याः (परमे) सर्वोत्कृष्टे (व्योमन्) आकाशवद् व्याप्ते ब्रह्मणि। [अयं मन्त्रः शत०७.५.२.२० व्याख्यातः] ॥४४ ॥