अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तिं॒ नमो॑भिः। स पर्व॑भिर्ऋतु॒शः कल्प॑मानो॒ गां मा हि॑ꣳसी॒रदि॑तिं वि॒राज॑म् ॥४३ ॥
अज॑स्रम्। इन्दु॑म्। अ॒रु॒षम्। भु॒र॒ण्युम्। अ॒ग्निम्। ई॒डे॒। पू॒र्वचि॑त्ति॒मिति॑ पू॒र्वऽचि॑त्तिम्। नमो॑भि॒रिति॒ नमः॑ऽभिः। सः। पर्व॑भि॒रिति॒ पर्व॑ऽभिः। ऋ॒तु॒श इत्यृ॑तु॒ऽशः। कल्प॑मानः। गाम्। मा। हि॒ꣳसीः॒। अदि॑तिम्। वि॒राज॒मिति॑ वि॒ऽराज॑म् ॥४३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह विद्वान् क्या करे, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरयं किं कुर्य्यादित्याह ॥
(अजस्रम्) निरन्तरम् (इन्दुम्) जलम् [इन्दु इति जलनामसु पठितम् निघं०१.१२] (अरुषम्) अश्वम् [अरुषमिति अश्वनामसु पठितम् निघं०१.१४] (भुरण्युम्) पोषकम्। अत्र भुरणधातोर्युः प्रत्ययः (अग्निम्) विद्युतम् (ईडे) अध्यन्विच्छामि (पूर्वचित्तिम्) पूर्वा चितिश्चयनं यस्य तम् (नमोभिः) अन्नैः (सः) (पर्वभिः) पूर्णैः साधनाङ्गैः (ऋतुशः) बहूनृतून् (कल्पमानः) समर्थः सन् (गाम्) पृथिवीम् (मा) (हिंसीः) हिंस्याः (अदितिम्) अखण्डिताम् (विराजम्) विविधैः पदार्थै राजमानाम्। [अयं मन्त्रः शत०७.५.२.१९ व्याख्यातः] ॥४३ ॥