स॒जूरब्दो॒ऽअय॑वोभिः स॒जूरु॒षाऽअरु॑णीभिः। स॒जोष॑साव॒श्विना॒ दꣳसो॑भिः स॒जूः सूर॒ऽएत॑शेन स॒जूर्वै॑श्वान॒रऽइड॑या घृ॒तेन॒ स्वाहा॑ ॥७४ ॥
स॒जूरिति॑ स॒ऽजूः। अब्दः॑। अय॑वोभि॒रित्यय॑वःऽभिः। स॒जूरिति॑ स॒ऽजूः। उ॒षाः। अरु॑णीभिः। स॒जोष॑सा॒विति॑ स॒जोष॑ऽसौ। अ॒श्विना॑। दꣳसो॑भि॒रिति॒ दꣳसः॑ऽभिः। स॒जूरिति॑ स॒ऽजूः। सूरः॑। एत॑शेन। स॒जूरिति॑ स॒ऽजूः। वै॒श्वा॒न॒रः। इड॑या। घृ॒तेन॑। स्वाहा॑ ॥७४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्यों को किस प्रकार परस्पर सुखी होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्यैः कथं कृत्वा सुखयितव्यमित्याह ॥
(सजूः) संयुक्तः (अब्दः) संवत्सरः (अयवोभिः) मिश्रितामिश्रितैरन्नैः क्षणादिभिः कालावयवैः (सजूः) सह वर्त्तमानाः (उषाः) प्रभातः (अरुणीभिः) रक्तप्रभाभिः (सजोषसौ) समानसेवनौ (अश्विना) प्राणापानाविव दम्पती (दंसोभिः) कर्मभिः (सजूः) सहितः (सूरः) सूर्य्यः (एतशेन) अश्वेनेव व्याप्तिशीलेन वेगवता किरणनिमित्तेन वायुना। एतश इत्यश्वनामसु पठितम् ॥ (निघं०१.१४) (सजूः) संयुक्तः (वैश्वानरः) विद्युदग्निः (इडया) अन्नादिनिमित्तरूपया पृथिव्या (घृतेन) जलेन (स्वाहा) सत्येन वागिन्द्रियेण। [अयं मन्त्रः शत०७.२.३.८ व्याख्यातः] ॥७४ ॥