हिन्दी - स्वामी दयानन्द सरस्वती
अब माता-पिता और पुत्रादिकों को पस्पर क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ जन्यजनकानां कर्त्तव्यं कर्माह ॥
(अयम्) (ते) तव (योनिः) दुःखवियोजकः सुखसंयोजको व्यवहारः (ऋत्वियः) ऋतुसमयोऽस्य प्राप्तः, अत्र छन्दसि घस् [अष्टा०५.१.१०६] इति घस् प्रत्ययः (यतः) यस्मात् (जातः) प्रादुर्भूतः सन् (अरोचथाः) प्रदीप्येथाः (तम्) (जानन्) (अग्ने) अग्निरिव स्वच्छात्मन् (आ) (रोह) आरूढो भव (अथ) अनन्तरम्, अत्र निपातस्य च [अष्टा०६.३.१३६] इति संहितायां दीर्घः (नः) अस्मभ्यम् (वर्धय) अत्र अन्येषामपि० [अष्टा०६३.१३७] इति संहितायां दीर्घत्वम् (रयिम्) प्रशंस्तां श्रियम्। [अयं मन्त्रः शत०७.१.१.२८ व्याख्यातः] ॥५२ ॥