बोधा॑ मेऽअ॒स्य वच॑सो यविष्ठ॒ मꣳहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः। पीय॑ति त्वो॒ऽअनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं᳖ वन्देऽअग्ने ॥४२ ॥
बोध॑। मे॒। अ॒स्य। वच॑सः। य॒वि॒ष्ठ॒। मꣳहि॑ष्ठस्य। प्रभृ॑त॒स्येति॒ प्रऽभृ॑तस्य। स्व॒धा॒व॒ इति॑ स्वधाऽवः। पीय॑ति। त्वः॒। अनु॑। त्वः॒। गृ॒णा॒ति॒। व॒न्दारुः॑। ते॒। त॒न्व᳖म्। व॒न्दे॒। अ॒ग्ने॒ ॥४२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्य लोग आपस में कैसे पढ़ें और पढ़ावें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्याः परस्परमध्ययनाध्यापनं कथं कुर्युरित्याह ॥
(बोध) अवगच्छ। अत्र द्व्यचोऽतस्तिङः [अष्टा०६.३.१३५] इति दीर्घः (मे) मम (अस्य) वर्त्तमानस्य (वचसः) (यविष्ठ) अतिशयेन युवन् (मंहिष्ठस्य) अतिशयेन भाषितुं योग्यस्य महतः (प्रभृतस्य) प्रकर्षेण धारकस्य पोषकस्य वा (स्वधावः) प्रशस्ता स्वधा बहून्यन्नानि विद्यन्ते यस्य सः (पीयति) निन्देत्, अत्रानेकार्था अपि धातवो भवन्तीति निन्दार्थः (त्वः) कश्चित् निन्दकः (अनु) पश्चात् (त्वः) कश्चित् (गृणाति) स्तुयात् (वन्दारुः) अभिवादनशीलः (ते) तव (तन्वम्) शरीरम् (वन्दे) स्तुवे (अग्ने) श्रोतः। [अयं मन्त्रः शत०६.८.२.९ व्याख्यातः] ॥४२ ॥