प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒ष्ट्वम्। बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न् मा हि॑ꣳसीस्त॒न्वा᳖ प्र॒जाः ॥३२ ॥
प्र। इत्। अ॒ग्ने॒। ज्योति॑ष्मान्। या॒हि॒। शि॒वेभिः॑। अ॒र्चिभि॒रित्य॒र्चिऽभिः॑। त्वम्। बृ॒हद्भि॒रिति॑ बृ॒हत्ऽभिः॑। भा॒नुभि॒रिति॑ भा॒नुऽभिः॑। भास॑न्। मा। हि॒ꣳसीः॒। त॒न्वा᳖। प्र॒जा इति॑ प्र॒ऽजाः ॥३२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर राजा क्या करके किस को प्राप्त होवे, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुना राजा किं कृत्वा किं प्राप्नुयादित्याह
(प्र) (इत्) (अग्ने) विद्याप्रकाशक (ज्योतिष्मान्) बहूनि ज्योतींषि विज्ञानानि विद्यन्ते यस्य सः (याहि) प्राप्नुहि (शिवेभिः) मङ्गलकारकैः (अर्चिभिः) पूजितैः (त्वम्) (बृहद्भिः) महद्भिः (भानुभिः) विद्याप्रकाशकैर्गुणैः (भासन्) प्रकाशकः सन् (मा) (हिंसीः) हिंस्याः (तन्वा) शरीरेण (प्रजाः) पालनीयाः। [अयं मन्त्रः शत०६.८.१.१९ व्याख्यातः] ॥३२ ॥