उ॒शिक् पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्त्ये॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि। इय॑र्त्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥२४ ॥
उ॒शिक्। पा॒व॒कः। अ॒र॒तिः। सु॒मे॒धाः इति॑ सुऽमे॒धाः। मर्त्ये॑षु। अ॒ग्निः। अ॒मृतः॑। नि। धा॒यि॒। इय॑र्त्ति। धू॒मम्। अ॒रु॒षम्। भरि॑भ्रत्। उत्। शु॒क्रेण॑। शो॒चिषा॑। द्याम्। इन॑क्षन् ॥२४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
(उशिक्) कामयमानः (पावकः) पवित्रकर्त्ता (अरतिः) ज्ञाता (सुमेधाः) शोभनप्रज्ञः (मर्त्येषु) (अग्निः) कारणाख्यः (अमृतः) अविनाशी (नि) (धायि) निधीयते (इयर्त्ति) प्राप्नोति (धूमम्) (अरुषम्) रूपम् (भरिभ्रत्) अत्यन्तं धरन् पुष्यन् (उत्) (शुक्रेण) आशुकरेण (शोचिषा) दीप्त्या (द्याम्) सूर्यम् (इनक्षन्) व्याप्नुवन्। इनक्षतीति व्याप्तिकर्मसु पठितम् ॥ (निघं०२.१८) ॥२४ ॥