विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ऽआ रोद॑सीऽअपृणा॒ज्जाय॑मानः। वी॒डुं चि॒दद्रि॑मभिनत् परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥२३ ॥
विश्व॑स्य। के॒तुः। भुव॑नस्य। गर्भः॑। आ। रोद॑सीऽइति॒ रोद॑सी। अ॒पृ॒णा॒त्। जाय॑मानः। वी॒डुम्। चि॒त्। अद्रि॑म्। अ॒भि॒न॒त्। प॒रा॒यन्निति॑ परा॒ऽयन्। जनाः॑। यत्। अ॒ग्निम्। अय॑जन्त। पञ्च॑ ॥२३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(विश्वस्य) (केतुः) (भुवनस्य) भवन्ति भूतानि यस्मिंस्तस्य लोकमात्रस्य (गर्भः) अन्तःस्थः (आ) (रोदसी) प्रकाशभूमी (अपृणात्) प्रपूर्यात् (जायमानः) उत्पद्यमानः (वीडुम्) दृढबलम् (चित्) इव (अद्रिम्) मेघम् (अभिनत्) भिन्द्यात् (परायन्) परेतः सन् (जनाः) (यत्) यः (अग्निम्) विद्युतम् (अयजन्त) सङ्गमयन्ति (पञ्च) प्राणाः ॥२३ ॥