दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञेऽअ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः। तृ॒तीय॑म॒प्सु नृ॒मणा॒ऽअज॑स्र॒मिन्धा॑नऽएनं जर॒ते स्वा॒धीः ॥१८ ॥
दि॒वः। परि॑। प्र॒थ॒मम्। ज॒ज्ञे॒। अ॒ग्निः। अ॒स्मत्। द्वि॒तीय॑म्। परि॑। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। तृ॒तीय॑म्। अ॒प्स्वित्य॒प्ऽसु। नृ॒मणा॑। नृ॒मना॒ इति॑ नृ॒ऽमनाः॑। अज॑स्रम्। इन्धा॑नः। ए॒न॒म्। ज॒र॒ते॒। स्वा॒धीरिति॑ सुऽआ॒धीः ॥१८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर राजधर्म का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुना राजविषयमाह ॥
(दिवः) विद्युतः (परि) उपरि (प्रथमम्) (जज्ञे) जायते (अग्निः) (अस्मत्) अस्माकं सकाशात् (द्वितीयम्) (परि) (जातवेदाः) जातप्रज्ञानः (तृतीयम्) (अप्सु) प्राणेषु जलेषु वा (नृमणाः) नृषु नायकेषु मनो यस्य सः (अजस्रम्) निरन्तरम् (इन्धानः) प्रदीपयन् (एनम्) (जरते) स्तौति (स्वाधीः) शोभनाध्यानयुक्ताः प्रजाः ॥१८ ॥