ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः। त्वेऽइषः॒ संद॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥१०८ ॥
ऊर्जः॑। न॒पा॒त्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। सु॒श॒स्तिभि॒रिति॑ सुश॒स्तिऽभिः॑। मन्द॑स्व। धी॒तिभि॒रिति॑ धी॒तिऽभिः॑। हि॒तः। त्वेऽइति॒ त्वे। इषः॑। सम्। द॒धुः॒। भूरि॑वर्पस॒ इति भूरि॑ऽवर्पसः। चि॒त्रोत॑य॒ इति॑ चि॒त्रऽऊ॑तयः। वा॒मजा॑ता॒ इति॑ वा॒मऽजा॑ताः ॥१०८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
माता-पिता और पुत्र कैसे हों, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मातापितृसन्तानाः कीदृशा भवेयुरित्याह ॥
(ऊर्जः) पराक्रमस्य (नपात्) न विद्यते पातो धर्मात् पतनं यस्य सः (जातवेदः) जातप्रज्ञान जातवित्त (सुशस्तिभिः) शोभनाभिः प्रशंसाभिः क्रियाभिः सह (मन्दस्व) आनन्द (धीतिभिः) स्वाङ्गुलीभिः, धीतय इत्यङ्गुलिनामसु पठितम् ॥ (निघं०२.५) (हितः) सर्वस्य हितं दधन् (त्वे) त्वयि (इषः) अन्नादीनि (सम्) (दधुः) दधतु (भूरिवर्पसः) बहूनि प्रशंसनीयानि वर्पांसि रूपाणि यासु ताः। वर्प इति रूपनामसु पठितम् ॥ (निघं०३.७) (चित्रोतयः) चित्रा आश्चर्य्यवद् रक्षणाद्याः क्रिया यासु ताः (वामजाताः) वामेषु प्रशस्येषु कर्मसु वा जाताः प्रसिद्धाः, वाम इति प्रशस्यनामसु पठितम् ॥ (निघं०३.८)। [अयं मन्त्रः शत०७.३.१.३१ व्याख्यातः] ॥१०८ ॥