मा मा॑ हिꣳसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिव॑ꣳ स॒त्यध॑र्मा॒ व्यान॑ट्। यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१०२ ॥
मा। मा॒। हि॒ꣳसी॒त्। ज॒नि॒ता। यः। पृ॒थि॒व्याः। यः। वा॒। दिव॑म्। स॒त्यध॒र्मेति॑ स॒त्यऽध॑र्मा। वि। आन॑ट्। यः। च॒। अ॒पः। च॒न्द्राः। प्र॒थ॒मः। ज॒जान॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥१०२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब किसलिये ईश्वर की प्रार्थना करनी चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ किमर्थ ईश्वरः प्रार्थनीय इत्याह ॥
(मा) निषेधे (मा) माम् (हिंसीत्) रोगैर्हिंस्यात् (जनिता) उत्पादकः (यः) जगदीश्वरः (पृथिव्याः) भूमेः (यः) (वा) (दिवम्) सूर्यादिकं जगत् (सत्यधर्मा) सत्यो धर्मो यस्य सः (वि) (आनट्) व्याप्तोऽस्ति (यः) (च) अग्निं सूर्यम् (अपः) जलानि वायून् (चन्द्राः) चन्द्रादिलोकान्, अत्र शसः स्थाने जस् (प्रथमः) जन्मादेः पृथगादिमः (जजान) जनयति (कस्मै) सुखस्वरूपाय सुखकारकाय। क इति पदनामसु पठितम् ॥ (निघं०५.४) ‘वाच्छन्दसि सर्वे विधयः’ इति सर्वनामकार्य्यम् (देवाय) दिव्यसुखप्रदाय विज्ञानस्वरूपाय (हविषा) उपादेयेन भक्तियोगेन (विधेम) परिचरेम। [अयं मन्त्रः शत०७.३.१.२ व्याख्यातः] ॥१०२ ॥