दे॒वस्य॑ त्वा सवि॒तुः प्र॑सवे᳕ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वत् ख॑नामि। ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम्। शि॒वं प्र॒जाभ्योऽहि॑ꣳसन्तं पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य᳖मङ्गिर॒स्वत् ख॑नामः ॥२८ ॥
दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। पृ॒थि॒व्याः। स॒धस्था॒दिति॑ स॒धऽस्था॑त्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। ख॒ना॒मि॒। ज्योति॑ष्मन्तम्। त्वा। अ॒ग्ने॒। सु॒प्रती॑क॒मिति॑ सु॒ऽप्रती॑कम्। अज॑स्रेण। भा॒नुना॑। दीद्य॑तम्। शि॒वम्। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। अहि॑ꣳसन्तम्। पृ॒थि॒व्याः। स॒धस्था॒दिति॑ स॒धऽस्था॑त्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। ख॒ना॒मः॒ ॥२८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्य क्या करके किस पदार्थ से बिजुली का ग्रहण करें, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्याः किं कृत्वा कस्माद् विद्युतं गृह्णीयुरित्याह ॥
(देवस्य) प्रकाशमानस्य (त्वा) त्वाम् (सवितुः) सर्वस्योत्पादकस्येश्वरस्य (प्रसवे) प्रसूतेऽस्मिन् संसारे (अश्विनोः) द्यावापृथिव्योराकर्षणधारणाभ्यामिव (बाहुभ्याम्) (पूष्णः) प्राणस्य बलपराक्रमाभ्यामिव (हस्ताभ्याम्) (पृथिव्याः) (सधस्थात्) सहस्थानात् (अग्निम्) विद्युतम् (पुरीष्यम्) सुखैः पूरकेषु भवम् (अङ्गिरस्वत्) वायुवद्वर्त्तमानम् (खनामि) निष्पादयामि (ज्योतिष्मन्तम्) बहूनि ज्योतींषि विद्यन्ते यस्मिंस्स्तम् (त्वा) त्वाम् (अग्ने) भूगर्भादिविद्याविद्विद्वन् (सुप्रतीकम्) सुष्ठु प्रतियन्ति सुखानि यस्मात्तम् (अजस्रेण) निरन्तरेण (भानुना) दीप्त्या (दीद्यतम्) देदीप्यमानम् (शिवम्) मङ्गलमयम् (प्रजाभ्यः) प्रसूताभ्यः (अहिंसन्तम्) अताडयन्तम् (पृथिव्याः) अन्तरिक्षात् (सधस्थात्) सहस्थानात् (अग्निम्) वायुस्थं विद्युतम् (पुरीष्यम्) पालकेषु साधनेषु साधुम् (अङ्गिरस्वत्) सूत्रात्मवायुवद्वर्त्तमानम् (खनामः) विलिखामः। [अयं मन्त्रः शत०६.३.४.१-२ व्याख्यातः] ॥२८ ॥