त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑। त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥२७ ॥
त्वम्। अ॒ग्ने॒। द्युभि॒रिति॒ द्युऽभिः॑। त्वम्। आ॒शु॒शु॒क्षणिः॑। त्वम्। अ॒द्भ्य इत्य॒त्ऽभ्यः। त्वम्। अश्म॑नः। परि॑। त्वम्। वने॑भ्यः। त्वम्। ओष॑धीभ्यः। त्वम्। नृ॒णाम्। नृ॒प॒त॒ इति॑ नृऽपते। जा॒य॒से॒। शुचिः॑ ॥२७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर सभाध्यक्ष कैसा होना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः सभेशः कीदृशो भवेदित्याह ॥
(त्वम्) (अग्ने) अग्निवत् प्रकाशमान न्यायाधीश राजन् ! (द्युभिः) दिनैरिव प्रकाशमानैर्न्यायादिगुणैः (त्वम्) (आशुशुक्षणिः) शीघ्रं शीघ्रं दुष्टान् क्षिणोति हिनस्तीव (त्वम्) (अद्भ्यः) वायुभ्यो जलेभ्यो वा (त्वम्) (अश्मनः) मेघात् पाषाणाद्वा। अश्मेति मेघनामसु पठितम् ॥ (निघण्टु १.१०) (परि) सर्वतोभावे (त्वम्) (वनेभ्यः) जङ्गलेभ्यो रश्मिभ्यो वा (त्वम्) (ओषधीभ्यः) सोमलतादिभ्यः (त्वम्) (नृणाम्) मनुष्याणाम् (नृपते) नृणां पालक (जायसे) प्रादुर्भवसि (शुचिः) पवित्रः ॥२७ ॥ इमं मन्त्रं यास्कमुनिरेवं व्याचष्टे−त्वमग्ने द्युभिरहोभिस्त्वमाशुशुक्षणिराशु इति च शु इति च क्षिप्रनामनी भवतः क्षणिरुत्तरः क्षणोतेराशु शुचा क्षणोतीति वा सनोतीति घा शुक् शोचतेः पञ्चम्यर्थे वा प्रथमा तथाहि वाक्यसंयोग आ इत्याकार उपसर्गः पुरस्ताच्चिकीर्षितेऽनुत्तर आशुशोचयिषुरिति शुचिः शोचतेर्ज्वलतिकर्मणोऽयमपीतरः शुचिरेतस्मादेव निष्षिक्तमस्मात् पापकमिति नैरुक्ताः ॥ निरु०६.१ ॥