स॒ध॒मादो॑ द्यु॒म्निनी॒राप॑ऽए॒ताऽअना॑धृष्टाऽअप॒स्यो᳕ वसा॑नाः। प॒स्त्या᳖सु चक्रे॒ वरु॑णः स॒धस्थ॑मपा शिशु॑र्मा॒तृत॑मास्व॒न्तः ॥७॥
स॒ध॒माद॒ इति॑ सध॒ऽमादः॑। द्यु॒म्निनीः॑। आपः॑। ए॒ताः। अना॑धृष्टाः। अ॒प॒स्यः᳕। वसा॑नाः। प॒स्त्या᳖सु। च॒क्रे॒। वरु॑णः। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। अ॒पाम्। शिशुः॑। मा॒तृत॑मा॒स्विति॑ मा॒तृऽत॑मासु। अ॒न्तरित्य॒न्तः ॥७॥
हिन्दी - स्वामी दयानन्द सरस्वती
राजाओं को यह अवश्य चाहिये कि सब प्रजा और अपने कुल के बालकों को ब्रह्मचर्य्य के साथ विद्या और सुशिक्षायुक्त करें, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
राज्ञामिदमावश्यकं यत्सर्वस्याः प्रजायाः स्वकुलस्य चापत्यानि ब्रह्मचर्येण विद्यासुशिक्षान्वितानि कार्य्याणीत्याह ॥
(सधमादः) याः सह माद्यन्ति हृष्यन्ति ताः (द्युम्निनीः) प्रशस्तं द्युम्नं धनं यशो वा विद्यते यासां ताः (आपः) जलानीव शान्ताः (एताः) प्राप्तिविद्यासुशिक्षाः (अनाधृष्टाः) धर्षितुमयोग्याः (अपस्यः) अपःसु कर्म्मसु साध्व्यः, अत्र सुपां सुलुक् [अष्टा०७.१३९] इति जसः स्थाने सुः (वसानाः) वस्त्राभूषणैराच्छादिताः (पस्त्यासु) गृहशालासु (चक्रे) कुर्य्यात् (वरुणः) वरो राजा (सधस्थम्) सहस्थानम् (अपाम्) व्याप्तविद्यानां स्त्रीणाम् (शिशुः) बालकः (मातृतमासु) अतिशयेन शास्त्रोक्तशिक्षया मानकर्त्रीषु धात्रीषु (अन्तः) समीपे ॥ अयं मन्त्रः (शत०५.३.५.१९) व्याख्यातः ॥७॥