स॒वि॒तुस्त्वा॑ प्रस॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रेण॒ सूर्य्य॑स्य र॒श्मिभिः॑। स॒वि॒तुर्वः॑ प्र॒स॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य र॒श्मिभिः॑। तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि॒ धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि ॥३१॥
स॒वि॒तुः त्वा॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिभिः॑। ते॑जः। अ॒सि॒। शु॒क्रम्। अ॒सि॒। अ॒मृत॑म्। अ॒सि॒। धाम॑। नाम॑। अ॒सि॒। प्रि॒यम्। दे॒वाना॑म्। अना॑धृष्टम्। दे॒व॒यज॑न॒मिति॑ देव॒ऽयजन॑म्। अ॒सि॒ ॥३१॥
हिन्दी - स्वामी दयानन्द सरस्वती
उक्त यज्ञ कैसे पवित्र होता है, सो अगले मन्त्र में उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
स यज्ञः कथं पवित्रीकरोतीत्युपदिश्यते ॥
(सवितुः) परमेश्वरस्य सूर्य्यलोकस्य वा (त्वा) त्वां जगदीश्वरं तं यज्ञं वा (प्रसवे) प्रकृष्टतयोत्पद्यन्ते सर्वे पदार्था यस्मिँस्तस्मिन् संसारे (उत्) उत्कृष्टार्थे। उदित्येतयोः प्रातिलोम्यं प्राह (निरु꠶१।३)। (पुनामि) पवित्रीकरोमि (अच्छिद्रेण) न विद्यते छिद्रं छेदनं यस्मिन् तेन (पवित्रेण) शुद्धेन (सूर्य्यस्य) चराचरात्मनः परमेश्वरस्य प्रकाशमयस्य सूर्य्यलोकस्य वा। सरति जानाति प्रकाशयति चराचरं जगदिति। राजसूयसूर्य्य꠶ (अष्टा꠶३।१।११४)। अनेन निपातितः (रश्मिभिः) प्रकाशकैर्गुणैः किरणैर्वा (सवितुः) उक्तार्थस्य (वः) युष्मानेताँश्च (प्रसवे) उक्तार्थे (अच्छिद्रेण) निरन्तरेण (पवित्रेण) शुद्धिकारकेण (सूर्य्यस्य) यः सुवत्यैश्वर्य्यं ददाति, ऐश्वर्य्यहेतून् प्रेरयति सः परमेश्वरः प्राणो वा तस्य (रश्मिभिः) अन्तःप्रकाशकैर्गुणैः (तेजः) स्वप्रकाशः प्रकाशहेतुर्वा (असि) अस्ति वा। अत्र सर्वत्र पक्षे व्यत्ययः (शुक्रम्) शुद्धं शुद्धिहेतुर्वा (असि) अस्ति वा (अमृतम्) अमृतात्मकं मोक्षसुखं प्रकाशनं वा (असि) अस्ति वा (धाम) धीयन्ते सर्वे पदार्था यस्मिन् तत् (नाम) नमस्करणीयो जलहेतुर्वा। नाम इत्युदकनामसु पठितम् (निघं꠶१।१२)। (असि) अस्ति वा (प्रियम्) प्रीतिकारकम् (देवानाम्) विदुषां दिव्यगुणानां वा (अनाधृष्टम्) यन्न समन्ताद् धृष्यते इत्यनाधृष्टम् (देवयजनम्) देवैर्यदिज्यते येन वा देवानां यजनं देवयजनं तत् (असि) अस्ति वा। अयं मन्त्रः (शत꠶१।३।१।२२-२८ ॥ १।३।२।१-१८) व्याख्यातः ॥३१॥