पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒वदा॑नुम्। यामैर॑यँश्च॒न्द्रम॑सि स्व॒धाभि॒स्तामु॒ धीरा॑सोऽअनु॒दिश्य॑ यजन्ते। प्रोक्ष॑णी॒रासा॑दय द्विष॒तो व॒धो॒सि ॥२८॥
पु॒रा। क्रूरस्य॑। वि॒सृप॒ इति वि॒ऽसृपः॑। वि॒र॒प्शि॒न्निति॑ विऽरप्शिन्। उ॒दा॒दायेत्यु॑त्ऽआ॒दाय॑। पृ॒थि॒वीम्। जी॒वदा॑नु॒मिति॑ जी॒वऽदा॑नुम्। याम्। ऐर॑यन्। च॒न्द्रम॑सि। स्व॒धाभिः॑। ताम्। ऊँ॒ इत्यूँ॑। धीरा॑सः। अ॒नु॒दिश्येत्य॑नु॒ऽदिश्य॑। य॒ज॒न्ते॒। प्रोक्ष॑णी॒रिति॑ प्र॒ऽउक्ष॑णीः। आ। सा॒द॒य॒। द्वि॒ष॒तः। व॒धः अ॒सि॒ ॥२८॥
हिन्दी - स्वामी दयानन्द सरस्वती
वे दोष कैसे निवारण करने और वहाँ मनुष्यों को फिर क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
ते दोषाः कथं निवारणीयास्तत्र मनुष्यैः पुनः किं करणीयमित्युपदिश्यते ॥
(पुरा) पुरस्तात् (क्रूरस्य) कृन्तन्त्यङ्गानि यस्मिन् तस्य युद्धस्य। कृतेश्छः क्रू च। (उणा꠶२।११) अनेन कृन्ततेरक् प्रत्ययः। क्रू इत्यादेशश्च (विसृपः) योद्धृभिर्विविधं यत्सृप्यते तस्य। सृपितृदोः कसुन्। (अष्टा꠶३।४।१७) अनेन भावलक्षणे सृपिधातोः कसुन् (विरप्शिन्) महागुणविशिष्टेश्वर वा महैश्वर्य्यमिच्छुक मनुष्य ! विरप्शीति महन्नामसु पठितम्। (निघं꠶३।३)। (उदादाय) ऊर्ध्वं समन्ताद् गृहीत्वा (पृथिवीम्) विस्तृतप्रजायुक्ताम् (जीवदानुम्) या जीवेभ्यो जीवनार्थं वस्तु ददाति ताम् (याम्) पृथिवीम् (ऐरयन्) राज्याय प्राप्नुवन्ति। अत्र लडर्थे लङ् (चन्द्रमसि) चन्द्रलोकसमीप आह्लादे वा। (स्वधाभिः) अन्नैः सह वर्त्तमानाम्। स्वधेत्यन्ननामसु पठितम्। (निघं꠶२।७)। (ताम्) एतल्लक्षणाम् (उ) वितर्के (धीरासः) मेधाविनः। धीर इति मेधाविनामसु पठितम्। (निघं꠶३।१५)। (अनुदिश्य) प्राप्तुं शोधयितुमनुलक्ष्य (यजन्ते) पूजयन्ति सङ्गतिं कुर्वते (प्रोक्षणीः) प्रकृष्टतया सिञ्चन्ति याभिः क्रियाभिः पात्रैर्वा ताः (आ) समन्तात् (सादय) स्थापय (द्विषतः) शत्रोः (वधः) हननम् (असि) भवेत्। अत्रापि पुरुषव्यत्ययो लिङर्थे लट् च ॥ अयं मन्त्रः (शत꠶१।२।५।१९-२६) व्याख्यातः ॥२८॥