मा भे॒र्मा॒ संवि॑क्था॒ऽअत॑मेरुर्य॒ज्ञोऽत॑मेरु॒र्यज॑मानस्य प्र॒जा भू॑यात् त्रि॒ताय॑ त्वा द्वि॒ताय॑ त्वैक॒ताय॑ त्वा ॥२३॥
मा। भेः॒। मा। सम्। वि॒क्थाः॒। अत॑मेरुः। य॒ज्ञः। अत॑मेरुः। यज॑मानस्य। प्र॒जेति॑ प्र॒ऽजा। भू॒या॒त्। त्रि॒ताय॑। त्वा॒। द्वि॒ताय॑। त्वा॒। ए॒क॒ताय॑। त्वा॒ ॥२३॥
हिन्दी - स्वामी दयानन्द सरस्वती
निःशङ्क होकर उक्त यज्ञ सब को करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
निःशङ्कतया सर्वैः स यज्ञोऽनुष्ठातव्य इत्युपदिश्यते ॥
(मा) निषेधार्थे (भेः) बिभीहि। अत्र लोडर्थे लङ्। बहुलं छन्दसि [अष्टा꠶२.४.७३] इति शपो लुक् (मा) निषेधार्थे (सम्) एकीभावे (विक्थाः) चल। ओविजी भयचलनयोरित्यस्माल्लोडर्थे लङ्। लङि मध्यमैकवचने बहुलं छन्दसि [अष्टा꠶२.४.७३] इति विकरणाभावश्च (अतमेरुः) न ताम्यति येन यज्ञेन सः। तमुधातोर्बाहुलकादेरुः प्रत्ययः (यज्ञः) इज्यते यस्मिन् सः (अतमेरुः) न ताम्यति यः स यज्ञकर्त्ता मनु्ष्यः (यजमानस्य) यज्ञस्यानुष्ठातुः (प्रजा) सुसंताना यज्ञसंपादिका (भूयात्) भवेत् (त्रिताय) त्रयाणामग्निकर्महविषां भावाय (त्वा) तम् (द्विताय) द्वयोर्वायुवृष्टिजलशुद्ध्योर्भावाय (त्वा) तम् (एकताय) एकस्य सुखस्य भावाय (त्वा) त्वाम् ॥ अयं मन्त्रः (शत꠶१।१।२।१५-१८) तथा (१।२।३।१-९) व्याख्यातः ॥२३॥