धा॒न्य᳖मसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वोदा॒नाय॑ त्वा व्या॒नाय॑ त्वा। दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॒ चक्षु॑षे त्वा म॒हीनां॒ पयो॑ऽसि ॥२०॥
धा॒न्य᳖म्। अ॒सि॒। धि॒नु॒हि। दे॒वान्। प्रा॒णाय॑। त्वा॒। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। त्वा॒। व्या॒नायेति॑ विऽआ॒नाय॑। त्वा॒। दी॒र्घाम्। अनु॑। प्रसि॑तिमिति॒ प्रऽसि॑तिम्। आयु॑षे। धा॒म्। दे॒वः। वः॒। स॒वि॒ता। हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। प्रति॑। गृ॒भ्णा॒तु॒। अच्छि॑द्रेण। पा॒णिना॒। चक्षु॑षे। त्वा॒। म॒हीना॑म्। पयः॑। अ॒सि॒ ॥२०॥
हिन्दी - स्वामी दयानन्द सरस्वती
किस प्रयोजन के लिये उक्त यज्ञ करना चाहिये, सो अगले मन्त्र में प्रकाश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
कस्मै प्रयोजनाय स यज्ञः कर्त्तव्य इत्युपदिश्यते ॥
(धान्यम्) धातुमर्हं यद् यज्ञात् शुद्धम्। रोगनाशकेन स्वादिष्ठतमेन सुखकारकमन्नं तत्। अत्र दधातेर्यत् नुट् च। (उणा꠶५।४८)। अनेन यत्प्रत्ययो नुडागमश्च (असि) भवति। अत्र सर्वत्र व्यत्ययः (धिनुहि) धिनोति प्रीणाति। अत्र लडर्थे लोट् (देवान्) विदुषो जीवानिन्द्रियाणि च (प्राणाय) प्रकृष्टमन्यते जीव्यते येन तस्मै जीवनधारणहेतवे बलाय (त्वा) तत् (उदानाय) स्फूर्त्तिहेतव ऊर्ध्वमन्यते चेष्ट्यते येन तस्मै उत्क्रमणपराक्रमहेतवे (त्वा) तत् (व्यानाय) विविधमन्यते व्याप्यते येन तस्मै सर्वेषां शुभगुणानां कर्मविद्याङ्गानां च व्याप्तिहेतवे (त्वा) तत्। अत्र त्रिषु प्रथमार्थे मध्यमः (दीर्घाम्) विस्तृताम् (अनु) पश्चादर्थे (प्रसितिम्) प्रकृष्टं सिनोति बध्नात्यनया ताम् (आयुषे) पूर्णायुर्वर्धनेन सुखभोगाय (धाम्) दधामि। अत्र छन्दसि लुङ्लङ्लिटः [अष्टा꠶३.४.६] इति वर्त्तमाने लुङ् लडभावश्च (देवः) प्रकाशमानः प्रकाशहेतुर्वा (वः) अस्मानेतान् जगत्स्थान् स्थूलान् पदार्थांश्च (सविता) सर्वजगदुत्पादकः सकलैश्वर्य्यदातेश्वरः सूर्य्यलोको वा (हिरण्यपाणिः) हिरण्यस्यामृतस्य मोक्षस्य दानाय पाणिर्व्यवहारो यस्य सः। अमृतꣳ हिरण्यम्। (शत꠶७।४।१।१५)। यद्वा हिरण्यं प्रकाशार्थं ज्योतिः पाणिर्व्यवहारो यस्य सः (प्रतिगृभ्णातु) प्रतिगृह्णातु प्रतिगृह्णाति वा। अत्र हृग्रहो꠶ [अष्टा꠶भा꠶वा꠶८.२.३२] इति हस्य भः। पक्षे लडर्थे लोट् च (अच्छिद्रेण) निरन्तरेण व्यापनेन प्रकाशेन वा (पाणिना) स्तुतिसमूहेन व्यवहारेण तेजसा (चक्षुषे) प्रत्यक्षज्ञानाय, नेत्रव्यवहाराय च। (त्वा) तं च। (महीनाम्) महतीनां वाचां पृथिवीनां वा। महीति वाङ्नामसु पठितम्। (निघं꠶१।११)। पृथिवीनामसु च। (निघं꠶१।१)। (पयः) अन्नं जलं च येन शुद्धम्। पय इत्युदकनामसु पठितम्। (निघं꠶१।१२)। अयं मन्त्रः (शत꠶१।१।५।१८-२२) व्याख्यातः ॥२०॥