धृष्टि॑र॒स्यपा॑ऽग्नेऽअ॒ग्निमा॒मादं॑ जहि॒ निष्क्र॒व्याद॑ꣳ से॒धा दे॑व॒यजं॑ वह। ध्रु॒वम॑सि पृथि॒वीं दृ॑ꣳह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑ ॥१७॥
धृष्टिः। अ॒सि। अप॑। अ॒ग्ने॒। अ॒ग्निम्। आ॒माद॒मित्या॑मऽअद॑म्। ज॒हि॒। निष्क्र॒व्याद॒मिति निष्क्रव्य॒ऽअद॑म्। सेध॒। आ। दे॒व॒यज॒मिति। देव॒ऽयज॑म्। व॒ह॒। ध्रु॒वम्। अ॒सि॒। पृ॒थिवी॑म्। दृ॒ꣳह॒। ब्र॒ह्म॒वनीति ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑ऽद॒धा॒मि॒। भ्रातृ॑व्यस्य व॒धाय॑ ॥१७॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब अग्निशब्द से किस-किस का ग्रहण किया जाता और इससे क्या क्या कार्य्य होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथाग्निशब्देन किं किं गृह्यते तेन किं किं च भवतीत्युपदिश्यते ॥
(धृष्टिः) प्रगल्भ इव यजमानः (असि) भवसि भवति वा। अत्र पक्षे व्यत्ययः (अप) क्रियायोगे (अग्ने) परमेश्वर धनुर्वेदविद्वन् वा (अग्निम्) विद्युदाख्यम् (आमादम्) आमानपक्वानत्ति तम् (जहि) हिंसय (निष्क्रव्यादम्) क्रव्यं पक्वमांसमत्ति तस्मान्निर्गतस्तम् (सेध) शास्त्राणि शिक्षय (आ) क्रियायोगे (देवयजम्) देवान् विदुषो दिव्यगुणान् जयति सङ्गतान् करोति येन यज्ञेन स देवयट् तम्। अत्र अन्येभ्योऽपि दृश्यन्ते [अष्टा꠶३.२.७५] इति सूत्रेण कृतो बहुलम् [अष्टा꠶भा꠶वा꠶३.२.११३] इति वार्त्तिकेन च करणे विच् प्रत्ययः (वह) प्रापय प्रापयति वा। अत्र सर्वत्र पक्षे व्यत्ययः (ध्रुवम्) निश्चलं सुखम् (असि) भवति (पृथिवीम्) विस्तृतां भूमिं तत्स्थान् प्राणिनश्च (दृंह) उत्तमगुणैर्वर्धय वर्धयति वा (ब्रह्मवनि) ब्राह्मणं विद्वांसं वनति तम्। छन्दसि वनसनरक्षिमथाम् (अष्टा꠶३।२।२७) अनेन ब्रह्मोपपदे वनधातोरिन् प्रत्ययः। सुपां सुलुग्꠶ [अष्टा꠶७.१.३९] इत्यमो लुक् च (त्वा) त्वां तं वा (क्षत्रवनि) क्षत्रं संभाजिनं वनति तम्। अत्राप्यमो लुक् (सजातवनि) जातं जातं वनति स जातवनिः समानश्चासौ जातवनिस्तम्। समानस्य छन्दस्यमूर्द्धप्रभृत्युदर्केषु (अष्टा꠶६।३।८४)। अनेन समानस्य सकारादेशः (उपदधामि) हृदये वेद्यां विमानादियानेषु वा धारयामि (भ्रातृव्यस्य) द्विषतः शत्रोः (वधाय) नाशाय हननाय ॥ अयं मन्त्रः (शत꠶१।१।५।३-८) व्याख्यातः ॥१७॥