वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: मित्रावरुणौ ऋषि: उरुचक्रिरात्रेयः छन्द: गायत्री स्वर: षड्जः काण्ड:

पा꣣तं꣡ नो꣢ मित्रा पा꣣यु꣡भि꣢रु꣣त꣡ त्रा꣢येथाꣳ सुत्रा꣣त्रा꣢ । सा꣣ह्या꣢म꣣ द꣡स्यू꣢न् त꣣नू꣡भिः꣢ ॥९८७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पातं नो मित्रा पायुभिरुत त्रायेथाꣳ सुत्रात्रा । साह्याम दस्यून् तनूभिः ॥९८७॥

मन्त्र उच्चारण
पद पाठ

पात꣢म् । नः꣣ । मित्रा । मि । त्रा । पायु꣡भिः꣢ । उ꣣त꣢ । त्रा꣣येथाम् । सु꣣त्रात्रा꣢ । सु꣣ । त्रात्रा꣢ । सा꣣ह्या꣡म꣢ । द꣡स्यू꣢꣯न् । त꣣नू꣡भिः꣢ ॥९८७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 987 | (कौथोम) 3 » 2 » 8 » 3 | (रानायाणीय) 6 » 3 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर उनसे प्रार्थना है।

पदार्थान्वयभाषाः -

हे (मित्रा) मित्रभूत परमात्मा-जीवात्मा, राष्ट्रपति-प्रधानमन्त्री, अध्यापक-उपदेशक वा प्राण-अपानो ! तुम (पायुभिः) पालन-साधनों से (नः) हमारी (पातम्) पालना करो। (उत) और (सुत्रात्रा) उत्तम त्राण करनेवाले गुण-समूह से (त्रायेथाम्) हमारा त्राण करो। तुम्हारी सहायता से हम (तनूभिः) शरीरों द्वारा (दस्यून्) क्षयकारी आन्तरिक तथा बाह्य शत्रुओं को (सासह्याम) पराजित कर देवें ॥३॥

भावार्थभाषाः -

परमात्मा-जीवात्मा, राष्ट्रपति-प्रधानमन्त्री, अध्यापक-उपदेशक और प्राण-अपान की सहायता पाकर पुरुषार्थ करके हम सदा ही सुरक्षित हो सकते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तौ प्रार्थयते।

पदार्थान्वयभाषाः -

हे (मित्रा) सुहृद्भूतौ मित्रावरुणौ परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ अध्यापकोपदेशकौ प्राणापानौ वा ! युवाम् (पायुभिः) पालनसाधनैः [पान्ति एभिरिति पायवः। पा रक्षणे धातोः ‘कृवापा०’। उ० १।१ इत्युण् प्रत्ययः।] (नः) अस्मान् (पातम्) पालयतम्। (उत) अपि च (सुत्रात्रा) सुत्राणकर्त्रा गुणगणेन (त्रायेथाम्) रक्षतम्। युवयोः साहाय्येन वयम् (तनूभिः) शरीरैः (दस्यून्) क्षयकारिणः आन्तरान् बाह्यांश्च शत्रून् (सासह्याम) पाराजयेमहि ॥३॥२

भावार्थभाषाः -

परमात्मजीवात्मनो राष्ट्रपतिप्रधानमन्त्रिणोरध्यापकोपदेशकयोः प्राणापानयोश्च साहाय्यं प्राप्य पुरुषार्थं कृत्वा वयं सदैव सुरक्षिता भवितुं शक्नुमः ॥३॥

टिप्पणी: १. ऋ० ५।७०।३, ‘मित्रा’ इत्यत्र ‘रुद्रा’, ‘सासह्याम’ इत्यत्र ‘तु॒र्य्याम॒’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सभासेनेशविषये व्याख्यातः।