वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: मित्रावरुणौ ऋषि: उरुचक्रिरात्रेयः छन्द: गायत्री स्वर: षड्जः काण्ड:

ता꣡ वा꣢ꣳ स꣣म्य꣡ग꣢द्रुह्वा꣣णे꣡ष꣢मश्याम꣣ धा꣡म꣢ च । व꣣यं꣡ वां꣢ मित्रा स्याम ॥९८६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ता वाꣳ सम्यगद्रुह्वाणेषमश्याम धाम च । वयं वां मित्रा स्याम ॥९८६॥

मन्त्र उच्चारण
पद पाठ

ता । वा꣣म् । सम्य꣢क् । अ꣣द्रुह्वाणा । अ । द्रुह्वाणा । इ꣡ष꣢꣯म् । अ꣡श्याम । धा꣡म꣢꣯ । च꣣ । वय꣢म् । वा꣣म् । मित्रा । मि । त्रा । स्याम ॥९८६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 986 | (कौथोम) 3 » 2 » 8 » 2 | (रानायाणीय) 6 » 3 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में मित्र और वरुण से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (अद्रुह्वाणा) द्रोह न करनेवाले, मित्र-वरुण अर्थात् परमात्मा-जीवात्मा, राष्ट्रपति-प्रधानमन्त्री, अध्यापक-उपदेशक और प्राण-अपानो ! (ता वाम्) उन तुम दोनों की हम स्तुति करते हैं। तुम्हारी अनुकूलता से हम (इषम्) अन्न, रस, धन, विज्ञान आदि (धाम च) और तेज (सम्यक्) समुचित प्रकार से (अश्याम) प्राप्त करें। हे (मित्रा) सबके मित्रो ! (वयम्) हम स्तोता लोग (वाम्) तुम्हारे (स्याम) हो जाएँ ॥२॥

भावार्थभाषाः -

परमात्मा-जीवात्मा, राष्ट्रपति-प्रधानमन्त्री, अध्यापक-उपदेशक और प्राण-अपान यथायोग्य उपयोग किये जाने पर महान् उपकार करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मित्रावरुणौ प्रार्थयते।

पदार्थान्वयभाषाः -

हे (अद्रुह्वाणा) अद्रुह्यन्तौ मित्रावरुणौ परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ अध्यापकोपदेशकौ प्राणापानौ वा ! (ता वाम्) तौ युवाम्, वयं स्तुमः इति शेषः। युवयोः आनुकूल्येन वयम् (इषम्) अन्नरसधनविज्ञानादिकम् (धाम च) तेजश्च (सम्यक्) समुचितप्रकारेण (अश्याम) प्राप्नुयाम। हे (मित्रा) मित्रौ सर्वेषां सुहृद्भूतौ ! (वयम्) स्तोतारः (वाम्) युवयोः (स्याम) भवेम ॥२॥२

भावार्थभाषाः -

परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ अध्यापकोपदेशकौ प्राणापानौ च यथायोग्यमुपयुक्तौ महान्तमुपकारं जनयतः ॥२॥

टिप्पणी: १. ऋ० ५।७०।२, ‘धाम च’ इत्यत्र ‘धाय॑से’, ‘वां मित्रा’ इत्यत्र च ‘ते रु॑द्रा’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतमध्यापकोपदेशकविषये व्याख्यातवान्।