वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣡मु꣢ रे꣣भा꣡सो꣢ अस्वर꣣न्नि꣢न्द्र꣣ꣳ सो꣡म꣢स्य पी꣣त꣡ये꣢ । स्वः꣢꣯ पति꣣र्य꣡दी꣢ वृ꣣धे꣢ धृ꣣त꣡व्र꣢तो꣣ ह्यो꣡ज꣢सा꣣ स꣢मू꣣ति꣡भिः꣢ ॥९३२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

समु रेभासो अस्वरन्निन्द्रꣳ सोमस्य पीतये । स्वः पतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ॥९३२॥

मन्त्र उच्चारण
पद पाठ

सम् । उ꣣ । रेभा꣡सः꣢ । अ꣣स्वरन् । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । पी꣣त꣡ये꣢ । स्वः꣢पतिः । स्वा३रि꣡ति꣢ । प꣣तिः । य꣡दि꣢꣯ । वृ꣣धे꣢ । धृ꣣त꣡व्र꣢तः । धृ꣣त꣢ । व्र꣣तः । हि꣢ । ओ꣡ज꣢꣯सा । सम् । ऊ꣣ति꣡भिः꣢ ॥९३२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 932 | (कौथोम) 3 » 1 » 14 » 3 | (रानायाणीय) 5 » 5 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर वही विषय है।

पदार्थान्वयभाषाः -

(रेभासः) स्तोता लोग (इन्द्रम्) विघ्नविनाशक परमात्मा को (सोमस्य पीतये) भक्तिरस के पान के लिए (सम् उ अस्वरन्) भली-भाँति पुकारते हैं। (स्वः पति) दिव्य प्रकाश, आनन्द वा मोक्ष का अधिपति वह (यदि) यदि (वृधे) वृद्धि करने के लिए (धृतव्रतः)संकल्प कर लेता है, तो उपासक को (ओजसा) आत्मबल से और (ऊतिभिः) रक्षाओं से (सम्) संयुक्त कर देता है ॥३॥

भावार्थभाषाः -

उपासक की दृढ़ श्रद्धा को देखकर परमेश्वर उसमें ओज और पुरुषार्थ की प्रेरणा करके उसकी निरन्तर रक्षा करता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः स एव विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(रेभासः) स्तोतारः। [रेभ इति स्तोतृनाम। निघं० ३।१६। रेभति अर्चतिकर्मा। निघं० ३।१४।] (इन्द्रम्)विघ्नविदारकं परमात्मानम् (सोमस्य पीतये)भक्तिरसस्य पानाय (सम् उ अस्वरन्) समाह्वयन्ति। (स्वः पतिः) दिव्यप्रकाशस्य आनन्दस्य मोक्षस्य वा अधिपतिः सः (यदि) चेत् (वृधे) वृद्धिं कर्तुम् (धृतव्रतः) गृहीतसंकल्पो भवति, तर्हि उपासकम् (ओजसा) आत्मबलेन (ऊतिभिः) रक्षाभिश्च (सम्) संयोजयति ॥३॥

भावार्थभाषाः -

उपासकस्य दृढां श्रद्धां दृष्ट्वा परमेश्वरस्तस्मिन्नोजः पुरुषार्थं च प्रेरयित्वा तं सततं रक्षति ॥३॥

टिप्पणी: १. ऋ० ८।९७।११, अथ० २०।५४।२। ‘समीं रेभासो अस्वरन्’, ‘स्वर्पतिं यदीं वृधे’ इति पाठः।