वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कविर्भार्गवः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣡धा꣢ हिन्वा꣣न꣡ इ꣢न्द्रि꣣यं꣡ ज्यायो꣢꣯ महि꣣त्व꣡मा꣢नशे । अ꣣भिष्टिकृ꣡द्विच꣢꣯र्षणिः ॥८३९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे । अभिष्टिकृद्विचर्षणिः ॥८३९॥

मन्त्र उच्चारण
पद पाठ

अ꣡ध꣢꣯ । हि꣡न्वानः꣢ । इ꣣न्द्रिय꣢म् । ज्या꣡यः꣢꣯ । म꣣हित्व꣢म् । आ꣣नशे । अभिष्टिकृ꣢त् । अ꣣भिष्टि । कृ꣢त् । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः ॥८३९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 839 | (कौथोम) 2 » 2 » 3 » 5 | (रानायाणीय) 4 » 1 » 3 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा का विषय है।

पदार्थान्वयभाषाः -

(अध) और यह बात भी है कि वह पवमान सोम अर्थात् पवित्रता देनेवाला जगत्स्रष्टा परमात्मा (इन्द्रियम्) आँख आदि इन्द्रिय को अथवा आत्मबल को (हिन्वानः) प्रेरित करता हुआ (ज्यायः) अत्यन्त प्रशस्त (महित्वम्) महत्त्व को (आनशे) प्राप्त करता है। वही (अभिष्टिकृत्) अभीष्ट प्रदाता और (विचर्षणिः) विशेषरूप से सबका साक्षात् द्रष्टा है ॥४॥

भावार्थभाषाः -

जो मन, आँख, कान आदि में मनन करने, देखने, सुनने आदि के सामर्थ्य को तथा आत्मा में बल को निहित करता है, उस कामना पूर्ण करनेवाले, विश्वद्रष्टा परमात्मा का महत्त्व सबको जानना चाहिए ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मविषयमाह।

पदार्थान्वयभाषाः -

(अध) अथ, स पवमानः सोमः पवित्रतादायकः जगत्स्रष्टा परमात्मा (इन्द्रियम्) चक्षुरादि इन्द्रियम् आत्मबलं वा। [इन्द्रस्य आत्मनः लिङ्गम्, इन्द्रेण आत्मना जुष्टं वा इन्द्रियम्। ‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट०। अ० ५।२।९३’ इत्यनेन घच्प्रत्ययान्तो निपातः।] (हिन्वानः) प्रीणयन् प्रेरयन्। [हिवि प्रीणनार्थः। यद्वा हि गतौ वृद्धौ च स्वादिः। आत्मनेपदं छान्दसम्।] (ज्यायः) अतिप्रशस्तम् (महित्वम्) महत्त्वम् (आनशे) प्राप्नोति। स एव (अभिष्टिकृत्) अभीष्टप्रदः। [अभिपूर्वाद् इषु इच्छायाम् इति धातोः क्तिनि अभीष्टि इति प्राप्ते ‘एमन्नादिषु छन्दसि पररूपं वाच्यम्’ इति वार्तिकेन पररूपम्।] (विचर्षणिः) विशेषेण सर्वेषां साक्षाद् द्रष्टा च अस्ति। [विचर्षणिः पश्यतिकर्मा। निघं० ३।११] ॥४॥

भावार्थभाषाः -

यो मनश्चक्षुःश्रोत्रादिषु मननदर्शनश्रवणादिसामर्थ्यमात्मनि च बलं निदधाति तस्य कामपूरकस्य विश्वद्रष्टुः परमात्मनो महत्त्वं सर्वैर्ज्ञातव्यम् ॥४॥

टिप्पणी: १. ऋ० ९।४८।५।