वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣢न्द्रं꣣ वि꣡श्वा꣢ अवीवृधन्त्समु꣣द्र꣡व्य꣢चसं꣣ गि꣡रः꣢ । र꣣थी꣡त꣢मꣳ र꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳ स꣡त्प꣢तिं꣣ प꣡ति꣢म् ॥८२७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥८२७॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯म् । वि꣡श्वाः꣢꣯ । अ꣣वीवृधन् । समुद्र꣡व्य꣢चसम् । स꣣मुद्र꣢ । व्य꣣चसम् । गि꣡रः꣢꣯ । र꣣थी꣡त꣢मम् । र꣣थी꣡ना꣢म् । वा꣡जा꣢꣯नाम् । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । प꣡ति꣢꣯म् ॥८२७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 827 | (कौथोम) 2 » 1 » 19 » 1 | (रानायाणीय) 3 » 6 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा का पूर्वार्चिक में ३४३ क्रमाङ्क पर परमात्मा और राजा के विषय में भाष्य किया गया था। यहाँ जगदीश्वर और आचार्य का विषय वर्णित है।

पदार्थान्वयभाषाः -

(विश्वाः) सब (गिरः) वाणियाँ (समुद्रव्यचसम्) समुद्र या अन्तरिक्ष के समान विशाल अर्थात् उदारहृदय, (रथीनाम्) रथस्वामियों के मध्य (रथीतमम्) श्रेष्ठ रथस्वामी, (वाजानाम्) आत्मबलों और विद्याबलों के (पतिम्) अधीश्वर, (सत्पतिम्) श्रेष्ठ मनुष्यों वा श्रेष्ठ विद्यार्थियों के पालनकर्त्ता (इन्द्रम्) जगदीश्वर वा विद्वान् आचार्य को (अवीवृधन्) महिमा से बढ़ाती हैं ॥१॥ ‘समुद्रव्यचसम् इन्द्रम्’ में वाचकलुप्तोपमालङ्कार है ॥१॥

भावार्थभाषाः -

जैसे जगदीश्वर ब्रह्माण्डरूप रथ का श्रेष्ठ स्वामी है, वैसे ही आचार्य गुरुकुलरूप रथ का श्रेष्ठ कुलपति होता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३४३ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जगदीश्वरस्याचार्यस्य च विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(विश्वाः) सर्वाः (गिरः) वाचः (समुद्रव्यचसम्) समुद्रवद् अन्तरिक्षवद् वा विशालम्, उदारहृदयमित्यर्थः, (रथीनाम्) रथस्वामिनां मध्ये (रथीतमम्) श्रेष्ठं रथस्वामिनम्, (वाजानाम्) आत्मबलानां विद्याबलानां च (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां जनानां विद्यार्थिनां वा पतिं पालकम् (इन्द्रम्) जगदीश्वरं विद्वांसम् आचार्यं वा (अवीवृधन्) महिम्ना (वर्धयन्ति) ॥–१॥२ ‘समुद्रव्यचसम् इन्द्रम्’ इत्यत्र वाचकलुप्तोपमालङ्कारः ॥–१॥

भावार्थभाषाः -

यथा जगदीश्वरो ब्रह्माण्डरथस्य श्रेष्ठः स्वामी वर्तते तथाऽऽचार्यो गुरुकुलरथस्य श्रेष्ठः कुलपतिर्भवति ॥–१॥

टिप्पणी: १. ऋ० १।११।१, य० १२।५६, १५।६१, १७।६१, साम० ३४३। २. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये ईश्वरविजेतृशूरयोर्विषये, यजुर्भाष्ये च १२।५६ इत्यत्र कुमारकुमारीणां कर्त्तव्यविषये, १५।६१ इत्यत्र राजप्रजाविषये, १७।६१ इत्यत्र च जगत्स्रष्टुरीश्वरस्य गुणविषये व्याख्यातवान् ॥–