ज꣡घ्नि꣢र्वृ꣣त्र꣡म꣢मि꣣त्रि꣢य꣣ꣳ स꣢स्नि꣣र्वा꣡जं꣢ दि꣣वे꣡दि꣢वे । गो꣡षा꣢तिरश्व꣣सा꣡ अ꣢सि ॥८१६॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)जघ्निर्वृत्रममित्रियꣳ सस्निर्वाजं दिवेदिवे । गोषातिरश्वसा असि ॥८१६॥
ज꣡घ्निः꣢꣯ । वृ꣣त्र꣢म् । अ꣣मित्रि꣡य꣢म् । अ꣣ । मित्रि꣡य꣢म् । स꣡स्निः꣢꣯ । वा꣡ज꣢꣯म् । दि꣣वे꣡दि꣢वे । दि꣣वे꣡ । दि꣣वे । गो꣡षा꣢꣯तिः । गो । सा꣣तिः । अश्वसाः꣢ । अ꣣श्व । साः꣢ । अ꣣सि ॥८१६॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में परमेश्वर और आचार्य का वर्णन है।
हे पवमान सोम अर्थात् पवित्रकर्त्ता सद्बुद्धिप्रेरक परमात्मन् वा आचार्य ! आप (आमित्रियम्) शत्रु से आनेवाले (वृत्रम्) पाप के (जघ्निः) नष्ट करनेवाले, (दिवेदिवे) प्रतिदिन (वाजम्) बल को (सस्निः) शुद्ध करनेवाले, (गोषातिः) भूमियों, गायों वा वाणियों के दाता और (अश्वसाः) घोड़ों वा प्राणों के दाता (असि) हो ॥२॥
जगदीश्वर के समान गुरु भी पाप आदियों का विनाशक, आत्मबल, मनोबल, बुद्धिबल, चित्तबल आदि को पवित्र करनेवाला, समस्त वाङ्मय को पढ़ानेवाला और प्राणों को परिष्कृत करनेवाला होवे ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ परमेश्वरमाचार्यं च वर्णयति।
हे पवमान सोम पवित्रकर्त्तः सद्बुद्धिप्रेरक परमात्मन् आचार्य वा ! त्वम् (अमित्रियम्) अमित्रादागतम् (वृत्रम्) पापम् (जघ्निः) हन्ता, (दिवेदिवे) प्रतिदिनम् (वाजम्) बलम् (सस्निः) शोधकः। [जघ्निः, सस्निः इत्यत्र हन् हिंसागत्योः ष्णा शौचे ण्यन्तः इत्यनयोः ‘आगमहनजनः किकिनौ लिट् च।’अ० ३।२।१७१ इत्यनेन किन् प्रत्ययः लिड्वद्भावश्च।] (गोषातिः) गवां भूमीनां धेनूनां वाचां वा दाता। [गवां सातिः प्राप्तिः यस्मात् स गोषातिः।] (अश्वसाः) अश्वानां, प्राणानां वा दाता च। [अश्वान् सनोतीति अश्वसाः। अश्वपूर्वात् सनोतेः ‘जनसनखनक्रमगमो विट्’। अ० ३।२।६७ इति विट् प्रत्ययः ‘विड्वनोरनुनासिकस्यात्’ अ० ६।४।४१ इत्यनुनासिकस्य आत्वम्।] (असि) विद्यसे ॥२॥
जगदीश्वर इव गुरुरपि पापादीनां हन्ताऽऽत्मबलमनोबलबुद्धिबल- चित्तबलादीनां पवित्रयिता, निखिलस्य वेदवाङ्मयस्याध्यापयिता, प्राणानां परिष्कर्त्ता च भवेत् ॥२॥