वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वा꣡मिद्धि हवा꣢꣯महे सा꣣तौ꣡ वाज꣢꣯स्य का꣣र꣡वः꣢ । त्वां꣢ वृ꣣त्रे꣡ष्वि꣢न्द्र꣣ स꣡त्प꣢तिं꣣ न꣢र꣣स्त्वां꣢꣫ काष्ठा꣣स्व꣡र्व꣢तः ॥८०९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वामिद्धि हवामहे सातौ वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥८०९॥

मन्त्र उच्चारण
पद पाठ

त्वा꣢म् । इत् । हि । ह꣡वा꣢꣯महे । सा꣣तौ꣢ । वा꣡ज꣢꣯स्य । का꣣र꣡वः꣢ । त्वाम् । वृ꣣त्रे꣡षु꣢ । इ꣣न्द्र । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । न꣡रः꣢꣯ । त्वाम् । का꣡ष्ठा꣢꣯सु । अ꣡र्व꣢꣯तः ॥८०९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 809 | (कौथोम) 2 » 1 » 12 » 1 | (रानायाणीय) 3 » 4 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में २३४ क्रमाङ्क पर परमेश्वर और राजा के पक्ष में व्याख्यात हुई थी। यहाँ परमात्मा और जीवात्मा का आह्वान है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमात्मन् वा जीवात्मन् ! (कारवः) कर्मशूर हम (वाजस्य) संग्राम की (सातौ) प्राप्ति होने पर (त्वाम् इत् हि) तुझे ही (हवामहे) पुकारते या उद्बोधन देते हैं। (वृत्रेषु) शत्रुओं वा विघ्नों के उमड़ने पर (सत्पतिम्) सज्जनों के पालनकर्ता (त्वाम्) तुझे ही पुकारते या उद्बोधन देते हैं। (नरः) सभी मनुष्य (काष्ठासु) दिशाओं में (अर्वतः) हिंसक शत्रु से रक्षार्थ (त्वाम्) तुझे ही पुकारते या उद्बोधन देते हैं ॥१॥

भावार्थभाषाः -

परमात्मा की कृपा से और आत्मोद्बोधन से सभी विघ्न और सभी शत्रु क्षण भर में पराजित किये जा सकते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २३४ क्रमाङ्के परमेश्वरनृपत्योः पक्षे व्याख्याता। अत्र परमात्मा जीवात्मा चाहूयते।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमात्मन् जीवात्मन् वा ! कर्मशूराः वयम् (वाजस्य) संग्रामस्य (सातौ) प्राप्तौ (त्वाम् इत् हि) त्वामेव खलु (हवामहे) आह्वयामः उद्बोधयामो वा। (वृत्रेषु) शत्रुषु विघ्नेषु वा उपद्रुतेषु (सत्पतिम्) सतां पालकम् (त्वाम्) त्वामेव हवामहे आह्वयामः उद्बोधयामो वा। (नरः) सर्वेऽपि मनुष्याः (काष्ठासु) दिक्षु (अर्वतः) हिंसकात् शत्रोः त्रातुम् इति शेषः। [अर्व हिंसायाम्, भ्वादिः।] (त्वाम्) त्वामेव हवन्ते आह्वयन्ति उद्बोधयन्ति वा ॥१॥२

भावार्थभाषाः -

परमात्मनः कृपयाऽऽत्मोद्बोधनेन च सर्वेऽपि विघ्नाः सर्वेऽपि च शत्रवः क्षणेन पराजेतुं शक्यन्ते ॥१॥

टिप्पणी: १. ऋ० ६।४६।१, अथ० २०।९८।१, उभयत्र ‘सा॒ ता’ इति पाठः। य० २७।३७। साम० २३४। ऋषिः भरद्वाजः बार्हस्पत्यः। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये शिल्पविद्याविषयं यजुर्भाष्ये च राजधर्मविषयमधिकृत्य व्याख्यातवान्।