वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अग्निश्चाक्षुषः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

अ꣣स्ये꣢꣫दिन्द्रो꣣ म꣢दे꣣ष्वा꣢ ग्रा꣣भं गृ꣢भ्णाति सान꣣सि꣢म् । व꣡ज्रं꣢ च꣣ वृ꣡ष꣢णं भर꣣त्स꣡म꣢प्सु꣣जि꣢त् ॥६९६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् । वज्रं च वृषणं भरत्समप्सुजित् ॥६९६॥

मन्त्र उच्चारण
पद पाठ

अ꣡स्य꣢ । इत् । इ꣡न्द्रः꣢꣯ । म꣡देषु꣢꣯ । आ । ग्रा꣣भ꣢म् । गृ꣣भ्णाति । सानसि꣢म् । व꣡ज्र꣢꣯म् । च꣣ । वृ꣡ष꣢꣯णम् । भ꣣रत् । स꣢म् । अ꣣प्सुजि꣢त् । अ꣣प्सु । जि꣢त् ॥६९६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 696 | (कौथोम) 1 » 1 » 17 » 3 | (रानायाणीय) 1 » 5 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः उसी विषय का वर्णन करते हैं।

पदार्थान्वयभाषाः -

(अस्य इत्) इस ज्ञान-कर्म-उपासना रूप सोमरस के ही (मदेषु) उत्साहों में (इन्द्रः) वीर मनुष्य (सानसिम्) ग्रहण करने योग्य (ग्राभम्) धनुष् को (आ गृभ्णाति) थामता है, (च) और (अप्सुजित्) समुद्र के जल में तथा अन्तरिक्ष में भी शत्रु को जीतनेवाला वह वीर (वृषणम्) गोली या गोले बरसानेवाले (वज्रम्) बन्दूक, तोप आदि सुदृढ़ हथियार का (संभरत्) संधान कर लेता है ॥३॥

भावार्थभाषाः -

ज्ञान-कर्म-उपासना रूप दिव्य सोमरस के पान से अपूर्व उत्साहवान् होकर मनुष्य भूमि, जल, आकाश कहीं भी विद्यमान दुर्दान्त शत्रुओं को भी जीतने में समर्थ हो जाता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

(अस्य इत्) अस्य ज्ञानकर्मोपासनारूपस्य सोमरसस्य एव (मदेषु) उत्साहेषु (इन्द्रः) वीरो जनः (सानसिम्) संभजनीयम् (ग्राभम्) ग्रहीतव्यं धनुः। [गृह्यते इति ग्राहः, स एव ग्राभः, ‘हृग्रहोर्भश्छन्दसि’ इति हस्य भः।] (आ गृभ्णाति) आगृह्णाति। [ग्रह धातोः पूर्ववद् हस्य भः।] (च) किञ्च, (अप्सुजित्) समुद्रजलेषु अन्तरिक्षे चापि शत्रूणां जेता स वीरः। [आपः इति अन्तरिक्षनाम उदकनाम च। निघं० १।३, १।१२।] (वृषणम्) गुलिकानां गोलकानां वा वर्षकम् (वज्रम्) भुशुण्डीशतघ्न्यादिकम् वज्रायुधम् (संभरत्) संदधाति ॥३॥

भावार्थभाषाः -

ज्ञानकर्मोपासनारूपस्य दिव्यस्य सोमरसस्य पानादपूर्वोत्साहसम्पन्नो नरो भुवि वा जले वान्तरिक्षे वा क्वापि विद्यमानान् दुर्दान्तानपि रिपून् जेतुं पारयति ॥३॥

टिप्पणी: १. ऋ० ९।१०६।३, गृभ्णीत इति भेदः।