द꣡वि꣢द्युतत्या रु꣣चा꣡ प꣢रि꣣ष्टो꣡भ꣢न्त्या कृ꣣पा꣢ । सो꣡माः꣢ शु꣣क्रा꣡ गवा꣢꣯शिरः ॥६५४॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । सोमाः शुक्रा गवाशिरः ॥६५४॥
द꣡धि꣢꣯द्युतत्या । रु꣡चा꣢ । प꣣रिष्टो꣡भ꣢न्त्या । प꣣रि । स्तो꣡भ꣢꣯न्त्या । कृ꣡पा꣢ । सो꣡माः꣢꣯ । शु꣣क्रा꣢ । ग꣡वा꣢꣯शिरः । गो । आ꣣शिरः ॥६५४॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम मन्त्र में ब्रह्मानन्दरूप सोमरसों का वर्णन करते हैं ॥
(दविद्युतत्या) अतिशय देदीप्यमान (रुचा) कान्ति तथा (परिष्टोभन्त्या) चारों ओर से सहारा देनेवाली (कृपा) शक्ति के साथ (गवाशिरः) उपासक के आत्मा में आश्रित (सोमाः) ब्रह्मानन्द-रस (शुक्राः) अत्यन्त पवित्रकारी हो जाते हैं ॥१॥
जब ब्रह्मानन्द-रस उपासक को प्राप्त होते हैं, तब वे उसके आत्मा को स्थायी रूप से अतिशय निर्मल कर देते हैं ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्राद्ये मन्त्रे ब्रह्मानन्दरूपान् सोमान् वर्णयति।
(दविद्युतत्या) अतिशयेन दीप्तया [द्युतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य सप्रसारणाभावः, अत्वं विगागमश्च ‘दाधर्तिदर्द्धर्ति०। अ० ७.४.६५’ इत्यनेन निपात्यते।] (रुचा) कान्त्या, किञ्च (परिष्टोभन्त्या) परितः आश्रयं प्रयच्छन्त्या। [ष्टुभु स्तम्भे, भ्वादिः, स्त्रियां शत्रन्तं रूपम्] (कृपा) शक्त्या। [कृपतेः क्विपि तृतीयैकवचनम्, ‘कृप् कृपतेर्वा कल्पतेर्वा’ इति निरुक्तम्, ६।८।] (गवाशिरः) गवि उपासकस्य आत्मनि आशिरः आश्रिताः (सोमाः) ब्रह्मानन्दरसाः (शुक्राः) स्तोतुः अतिशयेन पावकाः जायन्ते। [शुचिर् पूतीभावे, दिवादिः, शोचयन्तीति शुक्राः ऋज्रेन्द्राग्र०। उ० २.२९ इति रन् प्रत्यये निपातनादन्तोदात्तत्वं च] ॥१॥
यदा ब्रह्मानन्दरसा उपासकं प्राप्नुवन्ति तदा ते तस्यात्मानं स्थायित्वेन नितरां निर्मलं सम्पादयन्ति ॥१॥