वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣣ना꣡ विश्वा꣢꣯न्य꣣र्य꣢꣫ आ द्यु꣣म्ना꣢नि꣣ मा꣡नु꣢षाणाम् । सि꣡षा꣢सन्तो वनामहे ॥५९३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥५९३॥

मन्त्र उच्चारण
पद पाठ

ए꣣ना꣢ । वि꣡श्वा꣢꣯नि । अ꣣र्यः꣢ । आ । द्यु꣣म्ना꣡नि꣢ । मा꣡नु꣢꣯षाणाम् । सि꣡षा꣢꣯सन्तः । व꣣नामहे ॥५९३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 593 | (कौथोम) 6 » 3 » 1 » 8 | (रानायाणीय) 6 » 1 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मारूप सोम से धन की याचना की गयी है।

पदार्थान्वयभाषाः -

हे पवमान सोम अर्थात् सर्वोत्पादक पवित्रतादायक परमात्मन् ! (अर्यः) सबके स्वामी आप (एना) इन (सर्वाणि) सब (द्युम्नानि) धनों को (आ) प्राप्त कराओ। इन धनों को हम (मानुषाणाम्) सत्पात्र मनुष्यों को (सिषासन्तः) दान करने के अभिलाषी होते हुए (वनामहे) पाना चाहते हैं ॥८॥

भावार्थभाषाः -

जिस धन से दूसरों का हित नहीं होता, वह धन धन नहीं, किन्तु पुञ्जित अपयश ही है, क्योंकि वेद कहता है कि अकेला खानेवाला पाप का भागी होता है (ऋ० १०।११७।६) ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मसोमं धनं याचते।

पदार्थान्वयभाषाः -

हे पवमान सोम पवित्रतादायक सर्वोत्पादक परमैश्वर्यशालिन् परमात्मन् ! (अर्यः) सर्वेषां स्वामी त्वम्। ‘अर्यः स्वामिवैश्ययोः। अ० ३।१।१०३’ इति स्वाम्यर्थे यत्प्रत्ययान्तो निपातः। ‘यतोऽनावः। अ० ६।१।२१३’ इत्याद्युदात्तत्वे प्राप्ते ‘स्वामिन्यन्तोदात्तत्वं च वक्तव्यम्’ इति वार्तिकेनान्तोदात्तत्वम्। (एना) एनानि (विश्वानि) सर्वाणि (द्युम्नानि) धनानि। द्युम्नमिति धननाम। निघं० २।१०। (आ) आगमय। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। एतानि धनानि वयम् (मानुषाणाम्) सत्पात्रभूतानां मनुष्याणाम् (सिषासन्तः) दातुमिच्छन्तः सन्तः। षणु दाने धातोः सन्नन्तं रूपम्। (वनामहे) संभजामहे, प्राप्तुमिच्छाम इत्यर्थः। वन संभक्तौ भ्वादिः, व्यत्ययेनात्मनेपदम् ॥८॥२

भावार्थभाषाः -

येन धनेन परेषां हितं न सम्पद्यते तद् धनं धनं न किन्त्वपयश एव पुञ्जीभूतं विद्यते, ‘केवालाघो भवति केवलादी’ ऋ० १०।११७।६ इति श्रुतेः ॥८॥

टिप्पणी: १. ऋ० ९।६१।११, य० २६।१८ ऋषिः महीयवः, साम० ६७४। २. दयानन्दर्षिरपि मन्त्रमिमं यजुर्भाष्ये परमेश्वरपक्षे व्याख्यातवान्।