इ꣢न्द्र꣣म꣡च्छ꣢ सु꣣ता꣢ इ꣣मे꣡ वृष꣢꣯णं यन्तु꣣ ह꣡र꣢यः । श्रु꣣ष्टे꣢ जा꣣ता꣢स꣣ इ꣡न्द꣢वः स्व꣣र्वि꣡दः꣢ ॥५६६॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । श्रुष्टे जातास इन्दवः स्वर्विदः ॥५६६॥
इ꣡न्द्र꣢꣯म् । अ꣡च्छ꣢꣯ । सु꣣ताः꣢ । इ꣣मे꣢ । वृ꣡ष꣢꣯णम् । य꣣न्तु । ह꣡र꣢꣯यः । श्रु꣣ष्टे꣢ । जा꣣ता꣡सः꣢ । इ꣡न्द꣢꣯वः । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥५६६॥
हिन्दी : आचार्य रामनाथ वेदालंकार
प्रथम मन्त्र में ब्रह्मानन्दरस का विषय है।
(सुताः) प्रवाहित किये गये (इमे) ये (हरयः) दुःखहारी ब्रह्मानन्दरस (वृषणम्) बलवान् (इन्द्रम्) जीवात्मा की (अच्छ) ओर (यन्तु) जाएँ। (जातासः) उत्पन्न हुए वे (इन्दवः) उपासक को भिगो देनेवाले ब्रह्मानन्दरस (श्रुष्टे) शीघ्र ही (स्वर्विदः) दिव्य प्रकाश को प्राप्त करानेवाले हों ॥१॥
वे जीवात्मा धन्य हैं, जो परमात्मा की उपासना से ब्रह्मानन्दरस प्राप्त करते हैं ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार
तत्रादौ ब्रह्मानन्दरसविषयमाह।
(सुताः) अभिषुताः (इमे) एते (हरयः) दुःखहर्तारो ब्रह्मानन्दरसाः (वृषणम्) बलिनम् (इन्द्रम्) जीवात्मानम् (अच्छ) प्रति (यन्तु) गच्छन्तु। किञ्च (जातासः) जाताः उत्पन्नाः ते (इन्दवः) उपासकस्य क्लेदकाः ब्रह्मानन्दरसाः (श्रुष्टे) सद्य एव। श्रुष्टीति क्षिप्रनाम, आशु अष्टीति। निरु० ६।१३। श्रुष्टे इत्यपि तत्पर्यायो बोध्यः। (स्वर्विदः) दिव्यप्रकाशस्य लम्भकाः, भवन्त्विति शेषः ॥१॥
धन्यास्ते जीवात्मानो ये परमात्मोपासनया ब्रह्मानन्दरसं प्राप्नुवन्ति ॥१॥