वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣣ष꣢꣫ प्र कोशे꣣ म꣡धु꣢माꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ व꣢ज्रो꣣ व꣡पु꣢षो꣣ व꣡पु꣢ष्टमः । अ꣣भ्यॄ꣢३त꣡स्य꣢ सु꣣दु꣡घा꣢ घृ꣣त꣡श्चुतो꣢ वा꣣श्रा꣡ अ꣢र्षन्ति꣣ प꣡य꣢सा च धे꣣न꣡वः꣢ ॥५५६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष प्र कोशे मधुमाꣳ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः । अभ्यॄ३तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च धेनवः ॥५५६॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । प्र । को꣡शे꣢꣯ । म꣡धु꣢꣯मान् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । व꣡ज्रः꣢꣯ । व꣡पु꣢꣯षः । व꣡पु꣢꣯ष्टमः । अ꣣भि꣢꣯ । ऋ꣣त꣡स्य꣢ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । घृ꣣तश्चु꣡तः꣢ । घृ꣣त । श्चु꣡तः꣢꣯ । वा꣣श्राः꣢ । अ꣣र्षन्ति । प꣡य꣢꣯सा । च꣣ । धेन꣡वः꣢ ॥५५६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 556 | (कौथोम) 6 » 2 » 2 » 3 | (रानायाणीय) 5 » 9 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा रूप सोम की प्राप्ति का फल वर्णित किया गया है।

पदार्थान्वयभाषाः -

(एषः) यह (मधुमान्) मधुर परमात्मारूप सोम (कोशे) हमारे मनोमय कोश में (प्र अचिक्रदत्) दिव्य शब्द करा रहा है, जिससे (इन्द्रस्य) जीवात्मा का (वज्रः) काम, क्रोध आदि रिपुओं के वर्जन का सामर्थ्य (वपुषः वपुष्टमः) दीप्त से दीप्ततम अथवा विशाल से विशालतम हो गया है। (वाश्राः) शब्दायमान (धेनवः) वेदवाणी रूप गौएँ (ऋतस्य) सत्य की (सुदुघाः) उत्तम दोहन करनेवाली और (घृतश्चुतः) तेजरूप घी को क्षरित करनेवाली होती हुई (पयसा) वेदार्थरूप दूध के साथ (अभि अर्षन्ति) हमें प्राप्त हो रही हैं ॥३॥ इस मन्त्र में वेदवाणियों में धेनुओं का और वेदार्थ में दूध का आरोप होने से तथा उपमान द्वारा उपमेय का निगरण हो जाने से अतिशयोक्ति अलङ्कार है ॥३॥

भावार्थभाषाः -

जब वेदवाणी-रूपिणी गौएँ अपना पवित्र और पवित्रताकारी वेदार्थरूप दूध पिलाती हैं, तब उस दूध से मनुष्य का आत्मा सत्यमय, तेजोमय, अतिशय बलवान्, पवित्र और परिपुष्ट हो जाता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मसोमप्राप्तेः फलं वर्णयति।

पदार्थान्वयभाषाः -

(एषः) अयम् (मधुमान्) मधुररसमयः परमात्मसोमः (कोशे) अस्माकं मनोमयकोशे (प्र अचिक्रदत्) दिव्यं शब्दं कारयति। क्रदतेः शब्दकर्मणो णिचि लुङि रूपम्। येन (इन्द्रस्य) जीवात्मनः (वज्रः) कामक्रोधादिरिपुगणानां वर्जनसामर्थ्यम् (वपुषः वपुष्टमः२) दीप्तात् दीप्ततमः यद्वा वपुष्मतो वपुष्मत्तमः विशालाद् विशालतमः इत्यर्थः, सञ्जातः। (वाश्राः३) शब्दायमानाः। वाशृ शब्दे। वाशन्ते शब्दायन्ते इति वाश्राः, अत्र ‘स्फायितञ्चि०। उ० २।१२’ इति रक् प्रत्ययः। (धेनवः४) वेदवाग्लक्षणा गावः (ऋतस्य) सत्यस्य (सुदुघाः) सुष्ठु दोग्ध्र्यः, (घृतश्चुतः) तेजोरूपस्य घृतस्य स्रावयित्र्यश्च सत्यः (पयसा च) वेदार्थरूपेण दुग्धेन च सह (अभि अर्षन्ति) अस्मान् प्रति प्राप्नुवन्ति ॥३॥ अत्र वेदवाचि धेनुत्वारोपाद् वेदार्थे च पयस्त्वारोपाद् उपमानेनोपमेयस्य निगरणाच्चातिशयोक्तिरलङ्कारः ॥३॥

भावार्थभाषाः -

यदा वेदवाग्रूपा धेनवः पवित्रं पावकं च वेदार्थरूपं स्वकीयं पयः पाययन्ति तदा तेन पयसा मनुष्यस्यात्मा सत्यमयस्तेजोमयो बलवत्तमः पवित्रः परिपुष्टश्च जायते ॥३॥

टिप्पणी: १. ऋ० ९।७७।१ ‘वपुष्टरः’, ‘अभीमृतस्य’, ‘पयसेव धेनवः’ इति पाठः। २. वपुषः वपुष्टमः दीप्तेः दीप्ततमः—इति वि०। वपुषः वपुष्मतः दीप्तिमतः वपुष्टमः दीप्तिमत्तमः—इति भ०। वपुषः बीजानां वप्तुः अन्यस्मात् वपुष्टमः अतिशयेन वप्ता, बीजावापस्य सोमकर्तृकत्वात्, ‘सोमो वै रेतोधाः’ इति श्रुतेः—इति सा०। ३. वाश्राः कामयमानाः—इति वि० [वश कान्तौ]। शब्दयन्त्यः—इति सा०। ४. धेनवः धेट् पाने। पिबन्त्यः उदकम् आदित्यरश्मयः कामयमानाः। क्षरन्ति पयः धेनवः आदित्यरश्मयश्च—इति वि०। धेनवः आशीर्दुहः—इति भ०। ऋतस्य सत्यफलस्य सोमस्य धाराः इति शेषः। वाश्रा धेनवः इव लुप्तोपममेतत्—इति सा०।